SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ षष्ठाध्यायस्य तृतीयः पादः ॥ यदि महाराजशब्दो वैश्रवणार्थस्तदा ईयः स्यात् । [इकण्] इकण प्रथमा सि । [माहाराजिकः] महत्-राजन् । महांश्चासौ राजा च = महाराजः । 'राजन्-सखेः' (७।३।१०६) अट्समासान्तः → अ । 'नोऽपदस्य तद्धिते' (७४/६१) अन्लुक् । महाराजं भजति = माहाराजिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरेष्वादेर्णिति०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ॥छ।। अचित्ताददेशकालात् ॥ ६।३।२०६ ॥ [अचित्तात् ] अचित्त पञ्चमी ङसि । [अदेशकालात् ] देशश्च कालश्च = देशकालम् । न देशकालम् = अदेशकालम्, तस्मात् । 'नजत्' (३।२।१२५) न० → अ०। [आपूपिकः] अपूपान् भजति = आपूपिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१७२) स० → र० । [शाष्कुलिकः] शष्कुल 'गौरादिभ्यो मुख्यान्ङीः' (२।४।१९) ङी । शष्कुली: भजति = शाष्कुलिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७४।६८) ईलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । [मौदकिकः] मोदकान् भजति = मौदकिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । [पायसिकः] पयः पायसं वा भजति = पायसिकः । अनेन इकणप्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ। [ दैवदत्तः] देवदत्तं भजति = दैवदत्तः । 'भजति' (६।३।२०४) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेफ्रिति०' (७।४।१) वृद्धिः ऐ। [स्रौनः ] स्रुघ्ने भवः = स्रौघ्नः । 'भवे' (६।३।१२३) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । [ हैमनः ] हेमन्ते भवः = हैमनः । 'हेमन्ताद् वा तलुक् च (६।३।९१) अण्प्र० → अ - तस्य लुक् च । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः ऐ । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ॥छ।। : ॥ ६।३।२०७ ॥ [वादुसेवाऽर्जुनात्] वासुदेवश्च अर्जुनश्च = वासुदेवाऽर्जुनम्, तस्मात् । अय॑त्वाद् वासुदेवस्य पूर्वनिपातः । [अकः] अक प्रथमा सि । 'दोरीयः' (६।३।३२) - 'गोत्रक्षत्रियेभ्योऽकञ् प्रायः' (६।३।२०८) इत्यनयोरपवादः । [वासुदेवकः] वासुदेवं भजति = वासुदेवकः । अनेन अकप्र० । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । यदा वासुदेवशब्दः संज्ञाशब्दोऽक्षत्रियवचनस्तदोत्तरेणाकञ् न प्राप्नोति, किन्तु 'दोरीयः (६।३।३२) इतीयः स्यात् इति तद्ग्रहणम् । Shrenik/DIA-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012)Doondhika Part-6 (C) 1st • 30-7-2013 (2nd-16-9-2013) (3rd-3-10-2013) [295]
SR No.009970
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy