SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ षष्ठाध्यायस्य तृतीयः पादः ॥ २६५ [पैतृव्यकम् ] पितुर्धाता = पितृव्यः । 'पितृ-मातुर्व्य-डुलं भ्रातरि' (६।२।६२) व्यप्र० । पितृव्यादागतं = पैतृव्यकम् । अनेन अकप्र० → अक । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७४/६८) अलुक्। [मातुलकम्] मातुर्भ्राता = मातुलः । 'पितृ-मातुळ०' (६।२।६२) डुलप्र० → उल । 'डित्यन्त्य०' (२।१।११४) ऋलोपः । मातुलादागतं = मातुलकम् । अनेन अकप्र० → अक । 'अवर्णे' (७/४/६८) अलोपः ॥छ।। पितुर्यो वा ।। ६।३।१५१ ।। [पितुर्यो वा] पितृ पञ्चमी डसि । 'ऋतो डुर्' (१।४।३७) डसि० → डुर्० → उ० । 'डित्यन्त्य०' (२।१।११४) ऋलोपः । य प्रथमा सि । वा प्रथमा सि । [पित्र्यम्, पैतृकम् ] पितृ । पितुरागतं = पित्र्यम्, पैतृकम् । अनेन विकल्पे यप्र० । 'ऋतो रस्तद्धिते' (१।२।२६) तृ० → त्र० । पक्षे-'ऋत इकण्' (६।३।१५२) इकण्प्र० → इक । 'ऋवर्णोवर्ण०' (७।४।७१) इकण इलोपः । 'वृद्धिः स्वरेष्वादे०' (७४/१) वृद्धिः पि० → पै० ॥छ। ऋत इकण् ॥ ६।३।१५२ ।। [ऋत इकण्] ऋत् पञ्चमी ङसि । इकण् प्रथमा सि । [ हौतृकम् ] होतृ । होतुरागतं = हौतृकम् । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृ० औ । 'ऋवर्णोवर्ण०' (७।४।७१) इकण इलोपः । [शास्तृकम् ] शास्तृ । शास्तुरागतं = शास्तृकम् । अनेन इकण्प्र० → इक । 'ऋवर्णोवर्ण०' (७।४।७१) इकण इलोपः । [मातृकम् ] मातृ । मातुरागतं = मातृकम् । अनेन इकण्प्र० → इक । 'ऋवर्णोवर्ण०' (७।४।७१) इकण इलोपः । [भ्रातृकम् ] भ्रातृ । भ्रातुरागतं = भ्रातृकम् । अनेन इकण्प्र० → इक । 'ऋवर्णोवर्ण०' (७४/७१) इकण इलोपः । [स्वासृकम् ] स्वसृ । स्वसुरागतं = स्वासृकम् । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृ० आ । 'ऋवर्णोवर्ण०' (७।४।७१) इकण इलोपः । [जामातृकम् ] जामातृ । जामातुरागतं = जामातृकम् । अनेन इकण्प्र० → इक । 'ऋवर्णोवर्ण०' (७।४।७१) इकण इलोपः । [मातृकी विद्या] मातृ । मातुरागता = मातृकी विद्या । अनेन इकण्प्र० → इक । 'ऋवर्णोवर्ण०' (७४/७१) इकण इलोपः । 'अणजेयेकण्-नञ्-स्नञ्-टिताम्' (२।४।२०) ङी । 'अस्य ङ्यां लुक्' (२।४।८६) अलुक् ॥छ।। आयस्थानात् ।। ६।३।१५३ ॥ [आयस्थानात् ] 'इंण्क् गतौ' (१०७५) इ । एति स्वामिनमिति आयः । 'तन्-व्यधीण - श्वसातः' (५।१।६४) णप्र० → अ । 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० ऐ । 'एदैतोऽयाय्' (१।२।२३) आय् । 'ष्ठां गतिनिवृत्तौ (५) ष्ठा । 'षः सोऽष्ट्यै०' (२।३।९८) ष० → स० । 'निमित्ताभावे०' (न्या० सं० वक्ष० (१)/सूत्र(२९) स्था । तिष्ठन्त्यस्मिन्निति स्थानम् । 'करणा-ऽऽधारे' (५।३।१२९) अनटप्र० → अन । आयस्य स्थानम् = आयस्थानम् । तस्मात् । Shrenik/DIA-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012)Doondhika Part-6 (C) 1st • 30-7-2013 (2nd-16-9-2013) (3rd-3-10-2013) [265]
SR No.009970
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy