SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ षष्ठाध्यायस्य तृतीयः पादः ॥ २६३ छन्दसो यः ।। ६।३।१४७ ।। [छन्दसो यः] छन्दस् पञ्चमी ङसि । य प्रथमा सि । द्विस्वरे 'ऋगृद्-द्विस्वर-यागेभ्यः' (६।३।१४४) इत्यादिना इकणोऽपवादः । [छन्दस्यः] छन्दसो व्याख्यानस्तत्र भवो वा = छन्दस्यः । अनेन यप्र० ॥छ।। शिक्षादेश्चाण ॥ ६।३।१४८ ॥ [शिक्षादेः ] शिक्षा आदिर्यस्य सः = शिक्षादिः, तस्मात् । [च] च प्रथमा सि । [अण्] अण् प्रथमा सि । [शैक्षः] 'शिक्षि विद्योपादाने' (८७९) शिक्ष् । शिक्ष्यतेऽभ्यस्यते इति शिक्षा । 'क्तेटो गुरोर्व्यञ्जनात्' (५।३।१०६) अप्र० । 'आत्' (२।४।१८) आप्प्र० → आ । शिक्षाया व्याख्यानस्तत्र भवो वा = शैक्षः । अनेन अण्प्र० → अ । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् । [आर्गयनः ] ऋचामयनम् = ऋगयनम्, तस्य व्याख्यान:-ऋगयने भवो वा = आर्गयनः । अनेन अण्प्र० → अ । वृद्धिः आर् । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । [छान्दसः] छन्दसो व्याख्यानं-यद्वा छन्दसि भवो वा = छान्दसः । अनेन अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । [नैयायः] न्यायस्य व्याख्यानं-यद्वा न्याये भवो वा = नैयायः । अनेन अण्प्र० → अ । 'लोकात्' (१।१।३) न् पाठउ विश्लेषियइ । 'य्वः पदान्तात् प्रागैदौत्' (७।४।५) ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । [वास्तुविद्यः] वास्तुविद्याया व्याख्यान:-यद्वा वास्तुविद्यायां भवो वा = वास्तुविद्यः । अनेन अण्प्र० → अ । 'अवर्णेवर्णस्य (७।४।६८) आलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ।। [छन्दोभाष] भाष्यतेऽनेनेति भाषः । 'अच्' (५।११४९) अच्प्र० → अ । छन्दसां भाषः = छन्दोभाषः । [छन्दोविचिती] छन्दसो विचितिर्यस्याः सा । 'इतोऽक्त्यर्थात्' (२।४।३२) ङी । [छन्दोविजिति] छन्दसो विजिति = छन्दोविजिति । [निमित्त] निमीयते-निक्षिप्यते कारणमध्ये = निमित्त । [उपनिषद् ] उपनिषद्यतेऽस्याः सा । [प्रपञ्चः] 'पचुण विस्तारे' (१५८०) पच् । 'उदितः स्वरान्नोऽन्तः' (४।४।९८) पञ्च् । 'चुरादिभ्यो णिच्' (३।४।१७) णिच्प्र० । प्रपञ्चनं = प्रपञ्चः । 'युवर्ण-वृ-दृ-वश-रण-गमृद्-ग्रहः (५।३।२८) अल्प्र० → अ । तत आगते ॥ ६।३।१४९ ॥ [ततः] तद् । तस्मात् = ततः । 'किमद्वयादिसर्वाद्य०' (७।२।८९) पित्तस्प्र० । 'आ ढेरः' (२।११४१) द० → अ० । 'लुगस्या०' (२।१।११३) अलोपः । पञ्चमी ङसि । 'अव्ययस्य' (३।२१७) ङसिलोपः । Shrenik/DIA-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012)Doondhika Part-6 (C) 1st • 30-7-2013 (2nd-16-9-2013) (3rd-3-10-2013) [263]
SR No.009970
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy