SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ २३२ ॥छ। श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां । सायं-चिरं-प्राह्णे-प्रगे इत्यव्ययेभ्योऽव्ययादित्येव सिद्धे साय - चिर-प्राण-प्रगशब्देभ्यस्तनविधानं कालेकण्बाधनार्थम् भर्तु सन्ध्यादेरण् || ६|३८९ ॥ [ भर्तुसन्ध्यादेः ] भं च ऋतुश्च सन्ध्यादिश्च = भर्तुसन्ध्यादि, तस्मात् । [ अण् ] अण् प्रथमा सि । 'वर्षा कालेभ्यः' (६१३३८० ) इत्यनेन इकणो ऽपवादः । [ पौष: ] पुष्येण चन्द्रयुक्तेन युक्तः कालोऽपि = पुष्यः । 'चन्द्रयुक्तात् काले० ' ( ६।२२६) अण्प्र० । “लुप् त्वप्रयुक्ते" अण्लुप् । पुष्ये भवः = पौषः । अनेन अण्प्र० । 'वृद्धिः स्वरे० ' (७|४|१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । 'तिष्य - पुष्ययोर्भाऽणि' (२।४।९०) यलुक् । [तैष: ] तिष्येण चन्द्रयुक्तेन युक्तः कालोऽपि तिष्यः । 'चन्द्रयुक्तात् काले०' (६१२२६) अन्प्र० । “लुप् त्वप्रयुक्ते" अणूलुप् । तिष्ये भवः = तैषः । अनेन अण्प्र० । 'वृद्धिः स्वरे० ' (७|४|१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'तिष्य - पुष्ययोर्भाऽणि' (२।४।९०) यलुक् । । [ आश्विनः] अश्विन् । अश्वाः सन्त्यस्याम् - अश्विनी । मत्वर्थीय इन् । 'गौरादिभ्यो मुख्यान्ङीः ' (२|४|१९) ङी । अश्विन्या चन्द्रयुक्तया युक्तः कालोऽपि अश्विनी 'चन्द्रयुक्तात् काले०' (६।२२६) अण्प्र० । “लुप् त्वप्रयुक्ते" अण्लुप् । ‘यादेर्गौणस्याक्विपस्तद्धितलुक्यगोणी - सूच्यो:' ( २।४।९५ ) ङीनिवृत्तिः । अश्विन्यां भवः = आश्विनः । अनेन अण्प्र० । वृद्धिः आ 'अवर्णेवर्णस्य' (७|४|६८) ईलुक् । = = [ रौहिणः] रोहिण 'रेवत- रोहिणाद् भे' (२४।२६ ) ङी रोहिण्या चन्द्रयुक्तया युक्तः कालोऽपि रोहिणी । 'चन्द्रयुक्तात् काले०' (६२२६) अण्प्र० । “लुप् त्वप्रयुक्ते" अण्लुप् । 'यादेर्गौणस्याक्विप० ' (२२४।९५ ) ङीनिवृत्तिः । पुनरेव ङी । रोहिण्यां भवः रौहिणः । अनेन अण्प्र० अ वृद्धिः औ 'अवर्णेवर्णस्य' (७४६८) ईलुक् । 1 = [ सौवातः ] स्वात्या चन्द्रयुक्तया युक्तः कालोऽपि स्वाति ( : ) । 'चन्द्रयुक्तात् काले०' (६२२६) अण्प्र० । लुप् । स्वातौ भवः = सौवातः । अनेन अण्प्र० अ 'लोकात् ' (१११ ३) स् पाठउ विश्लेषिय 'य्वः पदान्तात् प्रागैदौत्' (७।४।५) औ । 'अवर्णेवर्णस्य' (७|४|६८) इलुक् । I = = ऋतु [ग्रैष्मः ] ग्रसते रसो रसान् ग्रीष्मः । ग्रीष्मे भवः = ग्रैष्मः । अनेन अण्प्र० अ । वृद्धिः ऐ । 'अवर्णवर्णस्य' (७४।६८) अलुक् । = [ शैशिर: ] शिशिरे भवः शैशिरः अनेन अणूप्र अ वृद्धिः ऐ 'अवर्णेवर्णस्य' (७१४।६८) अलुक् । । → । । वासन्तः अनेन अण्प्र० अ [ वासन्तः ] वसन्ते भव: [ पूर्वग्रैष्मः ] पूर्वग्रीष्मे भवः । यद्वा पूर्वस्मिन् ग्रीष्मे भवः = (७|४|१४) उत्तरपदवृद्धिः ऐ । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । वृद्धिः आ 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । अनेन अप्प्र अ अंशादृतो: ' पूर्वग्रैष्मः [अपरशैशिर:] अपरस्मिन् शिशिरे भवः = अपरशैशिरः । अनेन अण्प्र० अ 'अंशादृतो:' ( ७|४|१४) । उत्तरपदवृद्धिः ऐ। 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सन्ध्यादि - [ सान्ध्यः ] सन्ध्यायां भवः = सान्ध्यः । अनेन अण्प्र० अ । वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् । Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (C) 1st 30-7-2013 (2nd - 16-9-2013) (3rd-3-10-2013) [232]
SR No.009970
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy