SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ २३० श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । निशा-प्रदोषात् ॥ ६।३।८३ ॥ [निशाप्रदोषात् ] निशा च प्रदोषश्च = निशाप्रदोषम्, तस्मात् । [नैशिकः, नैशः] निशायां भवः = नैशिकः । अनेन इकण्प्र० → इक । एवम् - नैशः । 'भर्तु-सन्ध्यादेरण' (६।३।८९) अण्प्र० → अ । वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७४/६८) आलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । [प्रादोषिकः, प्रादोषः] प्रदोषे भवः = प्रादोषिकः । अनेन इकणप्र० → इक । एवम्-प्रादोषः । 'भर्तुसन्ध्यादेरण' (६।३।८९) अण्प्र० → अ । वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ॥छ।। श्वसस्तादिः ॥ ६।३।८४ ॥ [श्वसः] श्वस् पञ्चमी ङसि । [तादिः] त आदिर्यस्य सः = तादिः । [शौवस्तिकः, श्वस्त्यम्, श्वस्तनम् ] श्वस् । श्वो भवः = शौवस्तिकः । अनेन इकण्प्र० → इक तादिः । लोकात् श् पाठउ विश्लेषियइ । 'द्वारादेः' (७।४।६) औ । एवम्-श्वस्त्यम् । 'ऐषमो-ह्य:-श्वसो वा' (६।३।१९) त्यच्प्र० → त्य । एवम्-श्वस्तनम् । 'सायं-चिरं-प्राणे-प्रगे-ऽव्ययात्' (६।३।८८) तनटप्र० → तन । 'सो रुः' (२।१।७२) स० → र० । 'च-ट-ते सद्वितीये' (१।३।७) र० → स० । सि-अम् ॥छ।। चिर-परुत्-परारेस्त्नः ॥ ६।३।८५ ॥ [चिरपरुत्परारेः] चिरश्च परुच्च परारिश्च = चिरपरुत्परारि, तस्मात् । [नः] न प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । 'र: पदान्ते०' (१३५३) विसर्गः । [चिरत्नम्, चिरंतनम् ] चिरे भवं = चिरत्नम् । अनेन त्नप्र० । सि-अम् । पक्षे 'सायं-चिरं-प्राणे-प्रगे-ऽव्ययात्' (६।३।८८) तनटप्र० → तन । द्वितीये उदाहरणे अत एव निर्देशात् मुगमः । [परुत्नम्, परुत्तनम् ] परुत् भवं = परुत्नम् । अनेन लप्र० । सि-अम् । पक्षे 'सायं-चिरं-प्राणे०' (६।३।८८) तनटप्र० → तन । [परारित्नम्, परारितनम् ] परारि भवं = परारित्नम् । अनेन त्नप्र० । सि-अम् । पक्षे 'सायं-चिरं-प्राणे०' (६।३।८८) तनटप्र० → तन । [परात्नः ] परारि भवं = परात्नः । मतान्तरे अनेनैव नप्र०-रिलुक् च । मोरुदित्करणं 'तौ मुमो०' (१।३।१४) इत्यादिना अनुस्वारार्थम्, अन्यथा अपदान्तत्वान्न स्यात् ॥छ।। ___पुरो नः ॥ ६।३।८६ ॥ [पुरः] पुरा पञ्चमी ङसि । 'लुगाऽऽतोऽनापः' (२।१।१०७) आलुक् । [नः] न प्रथमा सि ।। [पुराणम्, पुरातनम् ] पुरा भवं = पुराणम् । अनेन नप्र० । 'र-घृवर्णान्नो ण०' (२।३।६३) न० → ण । सि-अम् । पक्षे 'सायं-चिरं-प्राणे०' (६।३।८८) तनटप्र० → तन । सि-अम् ।।छ।। Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (C) 1st .30-7-2013 (2nd - 16-9-2013) (3rd-3-10-2013) [230]
SR No.009970
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy