SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ ॥ अर्हम् ॥ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचितं श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ॥ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्ढिका ॥ ॥ अथ षष्ठाध्यायस्य प्रथमः पादः ॥ तद्धितोऽणादिः ॥ ६।१।१ ॥ [तद्धितः] तस्मै = लौकिक - वैदिकशब्दसंदर्भाय हितः । ताभ्यः प्रकृति-वृत्तिभ्यो हितः = तद्धितः । आद्यं मतं जैनेन्द्रस्य, द्वितीयमुत्पलस्य । “हितादिभिः' (३।१।७१) इति समासः । [अणादिः] अण् आदिर्यस्याऽसौ अणादिः । [औपगवः ] उप-गो । उपगतो गौर्येन सः = उपगुः । 'गोश्चान्ते इस्वोऽनंशिसमासेयोबहुव्रीहौ' (२।४।९६) इस्वत्वम् । उपगोरपत्यम् = औपगवः । 'ङसोऽपत्ये' (६।१।२८) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेफिति तद्धिते' (७४।१) वृ० औ । 'अस्वयम्भुवोऽव्' (७।४।७०) उकारस्य अव् सर्वत्र । [कापटवः] कपटु । केन शिरसा ब्रह्मणा आत्मना वा खेन वा पटुः = कपटुः । कपटोरपत्यं = कापटवः । 'ङसोऽपत्ये' (६।१।२८) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादे'० (७।४।१) वृ० आ । 'अस्वयम्भुवोऽव्' (७।४।७०) अव् ॥छ।। पौत्रादि वृद्धम् ॥ ६।१।२ ॥ [पौत्रादि] पुत्रस्याऽपत्यमनन्तरं = पौत्रः । 'पुनर्भू-पुत्र-दुहितृ-ननान्दुरनन्तरेऽज्' (६।१।३९) अप्र० → अ । 'वृद्धिः स्वरेष्वादेमिति' ० (७।४।१) वृ० पौ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । पौत्र आदिर्यस्य तत् = पौत्रादि । प्रथमा सि । 'अनतो लुप्' (१।४।५९) सिलुप् । [वृद्धम् ] 'वृधूङ् वृद्धौ' (९५७) वृध् । वर्धते स्म = वृद्धम् । 'गत्यर्था-ऽकर्मक-पिब-भुजेः' (५।१।११) क्तप्र० → त । 'अधश्चतुर्थात् तथोर्धः' (३।११७९) त० →ध० । 'तृतीयस्तृतीय-चतुर्थे' (१।३।४९) ध० → द० । सि-अम् । 'समानादमोऽतः' (१।४।४६) अलोपः । अपत्यवत इति विशेष्यम्, परमप्रकृति(ते)रिति विशेषणम्, अन्यथा स्त्रीत्वम् ।
SR No.009970
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy