SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ षष्ठाध्यायस्य द्वितीयः पादः ॥ १७१ [राजसूयिकः ] राजसूयं वेत्त्यधीते वा = राजसूयिकः । आख्यान- [यावक्रीतिकः] यवानां क्रीतं = यवक्रीतम् । यवक्रीतं वेत्त्यधीते वा = यावक्रीतिकः । अनेन इकण्प्र० → इक । वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । [यावक्रिकः] यवक्री । यवक्रियं वेत्त्यधीते वा = यावक्रिकः । अनेन इकण्प्र० → इक । वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) ईलुक् । आख्यानशब्दस्य न्यायादौ पाठात् अर्थप्रधान आख्यानशब्दो ग्राह्यः । एतत् साहचर्यादेव च क्रत्वादयोऽप्यर्थप्रधाना ग्राह्याः । [प्रैयविकः] प्रियङ्गव मण्ड्यते । प्रियङ्गवं वेत्त्यधीते वा = प्रैयङ्गविकः । अनेन इकण्प्र० → इक । वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । [प्रेयगुकः] प्रियङ्गु मण्ड्यते । प्रियङ्गु वेत्त्यधीते वा = प्रेयगुकः । अनेन इकण्प्र० → इक । 'ऋवर्णोवर्ण-दोसिसुसशश्वदकस्मात्त इकस्येतो लुक्' (७।४।७१) इकण इकारस्य लुक् । [आविमारकिकः] अविमारकं वेत्त्यधीते वा = आविमारकिकः । आख्यायिका बृहत्कथा- [वासवदत्तिकः] वासव 'डुदांग्क् दाने' (११३८) दा । वासव एनां देयादित्याशास्यमानेति वासवदत्ता । 'तिकृतौ नाम्नि' (५।११७१) क्तप्र० → त । 'दत्' (४|४|१०) ददादेशः । 'आत्' (२।४।१८) आप्प्र० → आ । वासवदत्तां वेत्त्यधीते वा = वासवदत्तिकः । अनेन इकण्प्र० → इक । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । 'र: पदान्ते०' (१।३।५३) विसर्गः । [सौमनोहरिकः] सुष्ठ मनोहरतीति सुमनोहरी । 'अच्' (५।१।४९) अच्प्र० → अ । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० अर् । 'आत्' (२।४।१८) आप्प्र० → आ । सुमनोहरां वेत्त्यधीते वा = सौमनोहरिकः । अनेन इकणप्र० → इक । वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् । प्रथमा सि । 'सो रुः' (२।११७२) स० → र० । 'र: पदान्ते०' (१।३।५३) विसर्गः ॥छ।। अकल्पात् सूत्रात् ।। ६।२।१२० ।। [अकल्पात् ] न कल्पः = अकल्पस्तस्मात् । [सूत्रात् ] सूत्र पञ्चमी ङसि । [वातिसूत्रिकः ] वृत्तिश्च सूत्रं च = वृत्तिसूत्रम्(d) । वृत्तिसूत्रं(त्रे) वेत्त्यधीते वा = वार्तिसूत्रिकः । अनेन इकण्प्र० → इक । वृद्धिः आर् । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । [सांग्रहसूत्रिकः] संग्रहप्रधानं सूत्रं = संग्रहसूत्रम् । संग्रहसूत्रं वेत्त्यधीते वा = सांग्रहसूत्रिकः । अनेन इकण्प्र० → इक । वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । [सौत्रः] सूत्रं वेत्त्यधीते वा = सौत्रः । 'तद् वेत्त्यधीते' (६।२।११७) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७।४।१) वृ० औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । अकल्पादिति पर्युदासेन पूर्वपदाभावे इकण् न भवति । [काल्पसौत्रः] कल्पस्य सूत्रं = कल्पसूत्रम् । कल्पसूत्रं वेत्त्यधीते वा = काल्पसौत्रः । अयमपि पर्युदासः । 'तद् वेत्त्यधीते' (६।२।११७) अण्प्र० → अ । 'अनुशतिकादीनाम्' (७।४।२७) उभयपदवृद्धिः । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । प्रथमा सि । 'सो रुः' (२।११७२) स० → र० ॥छ।। Shrenik/DIA-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012)Doondhika Part-6 (B) 1st • 30-7-2013 (2nd-16-9-2013) (3rd-3-10-2013) [171]|
SR No.009970
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy