SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ षष्ठाध्यायस्य द्वितीयः पादः ॥ १३५ य । एवम्-अम्मयम् । ‘एकस्वरात्' (६।२।४८) मयटप्र० → मय । 'धुटस्तृतीयः' (२।१।७६) प० → ब० । 'प्रत्यये च' (१३।२) ब० → म० । सि-अम् ॥छ।। लुब्बहुलं पुष्प-मूले ॥ ६।२।५७ ।। [लुप्] लुप् प्रथमा सि । [ बहुलम् ] बहुल ‘क्रियाविशेषणात्' (२।२।४१) अम् । [ पुष्पमूले ] पुष्पं च मूलं च = पुष्पमूलम्, तस्मिन् । [मल्लिका] मल्लिकाया विकारोऽवयवो वा पुष्पं = मल्लिका । 'प्राण्यौषधि-वृक्षेभ्योऽवयवे च' (६।२।३१) अण्प्र० । अनेन लुप् । [यूथिका] यूथिकाया विकारोऽवयवो वा पुष्पं = यूथिका । 'प्राण्यौषधि-वृक्षेभ्योऽवयवे च' (६।२।३१) अण्प्र० । 'अभक्ष्या-ऽऽच्छादने वा मयट्' (६।२।४६) मयट्प्र० । अनेन लुप् । 'ङ्यादेर्गौणस्याक्विप०' (२।४।९५) आप्निवृत्तौ पुनरेव आप् । [नवमालिका] पुष्पजातिः । [मालती] मालत्या विकारोऽवयवो वा = मालती । 'दोरप्राणिनः' (६।२।४९) मयट्प्र० । अनेन लुप् । 'ङ्यादेर्गौणस्याक्विप०' (२।४।९५) डीनिवृत्तौ पुनरेव 'गौरादिभ्यो मुख्यान्ङी:' (२।४।१९) ङी । [पाटलम्, पाटला वा] पाटल 'नवा शोणादेः' (२।४।३१) ङी । पाटल्या पाटलाया वा विकारोऽवयवो वा पुष्पं = पाटलम् । 'दोरप्राणिनः' (६।२।४९) मयटप्र० । अनेन लुप् । 'ङ्यादेौणस्याक्विप०' (२।४।९५) ङीनिवृत्तिः । सि-अम् । द्वितीये 'आत्' (२।४।१८) आप्प्र० → आ । [कुन्दम् ] कुन्दस्य विकारोऽवयवो वा पुष्पं = कुन्दम् । [सिन्दुवारम् ] सिन्दुवारस्य विकारोऽवयवो वा पुष्पं = सिन्दुवारम् । [करीरम् ] करीरस्य विकारोऽवयवो वा पुष्पं = करीरम् ।। [अशोकम् ] अशोकस्य विकारोऽवयवो वा पुष्पम् = अशोकम् । [चम्पकम् ] चम्पकस्य विकारोऽवयवो वा पुष्पं = चम्पकम् । [कर्णिकारम् ] कर्णिकारस्य विकारोऽवयवो वा पुष्पं = कर्णिकारम् । [कोविदारम् ] कोविदारस्य विकारोऽवयवो वा पुष्पं = कोविदारम् । [विदारी] विदार 'गौरादिभ्यो मुख्यान्ङी:' (२।४।१९) ङी । 'अस्य यां लुक्' (२।४।८६) अलुक् । विदार्या विकारोऽवयवो वा मूलं = विदार(री) । 'प्राण्यौषधि०' (६।२।३१) अण्प्र० । अनेन लुप् । 'ङ्यादेौणस्याक्विप०' (२।४।९५) ङीनिवृत्तौ 'गौरादिभ्यो मुख्यान्डी:' (२।४।१९) ङी । [अंशुमती] अंशु । अंशु विद्यते (अंशुर्विद्यते) यस्यां सा = अंशुमती । 'तदस्याऽस्त्यस्मिन्निति मतुः' (७।२।१) मतुप्र० → मत् । 'नोादिभ्यः' (२।१।९९) म० → व० न भवति । अंशुमत् 'अधातूदृदितः' (२।४।२) ङी । अंशुमत्या विकारोऽवयवो वा = अंशुमती । 'प्राण्यौषधि०' (६।२।३१) अण्प्र० । अनेन लुप् । 'ङ्यादेर्गौणस्याक्विप०' (२।४।९५) ङीनिवृत्तिः । 'अधातूदृदितः' (२।४।२) ङी । Shrenik/DIA-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012)Doondhika Part-6 (B) 1st • 30-7-2013 (2nd-16-9-2013) (3rd-3-10-2013) [135]
SR No.009970
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy