SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ षष्ठाध्यायस्य प्रथमः पादः ॥ [पाण्डवः] पाण्डूनां राष्ट्रस्य राजानः, पाण्डोः राज्ञोऽपत्यानि वा = पाण्डवः । अनेन ड्यणप्र० । 'बहुष्वस्त्रियाम्' (६।१।१२४) ड्यण्लुप् । प्र० जस् । 'जस्येदोत्' (१।४।२२) ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् ।। [पाण्डवाः यस्य दासाः] पाण्डोरपत्यानि = पाण्डवाः । 'शुभ्रादिभ्यः' (६।१७३) एयणबाधकः 'शिवादेरण्' (६।१६०) अण्प्र० → अ । वृद्धिः । 'अस्वयम्भुवोऽव्' (७।४।७०) अव् । प्र० जस् । अत्र तु कुरवो जनपदस्तस्य राजा पाण्डुरिति शिवाद्यण् भवति । अयमर्थः - पाण्डुदेशस्तस्यैव देशस्य सम्बन्धीनि राज्ञि वाच्ये ड्यण् भवति । यत्रान्यदेशसम्बन्धी राजा भवति पाण्डुर्नाम अन्यत्र च देशोऽप्यस्ति पाण्डुर्नाम तत्र न भवतीति भावार्थः । यदि स एव राजा स एव देशः स्यात् तदैव स्यादित्याशयः । डकारोऽन्त्यस्वरादिलोपार्थः । णकारो वृद्धिनिमित्तवद्भावनिषेधार्थः ।। [पाण्ड्याभार्यः] पाण्डूनां राज्ञी = पाण्ड्या । पूर्ववत् आप् । पाण्ड्या भार्या यस्य सः = पाण्ड्याभार्यः । 'गोश्चान्ते हुस्वोऽनंशिसमासेयोबहुव्रीहौ' (२।४।९६) हुस्वः । 'परतः स्त्री०' (३।२।४९) पुंवद्भावे प्राप्ते 'तद्धित०' (३।२।५५) इति निषेधः ॥छ। शकादिभ्यो नेर्लुप् ।। ६।१।१२० ।। [शकादिभ्यः] शक आदिर्येषां ते = शकादयः, तेभ्यः = शकादिभ्यः । पञ्चमी भ्यस् । [द्रेः] द्रि षष्ठी ङस् । [लुप्] लुप् प्रथमा सि । [शकः] शक । शकानां राष्ट्रस्य राजा, शकस्य राज्ञोऽपत्यं वा = शकः । 'पुरु-मगध-कलिङ्ग' (६।१।११६) अण्प्र० । अनेन लुप् । [यवनः ] यवनानां राष्ट्रस्य राजा, यवनस्य राज्ञोऽपत्यं वा = यवनः । [जतः] जर्तानां राष्ट्रस्य राजा, जर्त्तस्य राज्ञोऽपत्यं वा = जतः । [कम्बोजः] कम्बोजानां राष्ट्रस्य राजा, कम्बोजस्य राज्ञोऽपत्यं वा = कम्बोजः । [चोलः] चोलानां राष्ट्रस्य राजा, चोलस्य राज्ञोऽपत्यं वा = चोलः । 'राष्ट्र-क्षत्रियात् सरूपाद् राजाऽपत्ये दिरञ्' (६।१२११४) अप्र० । अनेन लुप् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । [केरलः] 'कृत् विक्षेपे' (१३३४) कृ । किरन्ति सदाचारमिति केरलः । 'मुरलोरल-विरल-केरल-कपिञ्जलकज्जलेज्जल-कोमल-भृमल-सिंहल-काहल-शूकल-पाकल-युगल-भगल-विदल-कुन्तलोत्पलादयः' (उणा० ४७४) केरलनिपातः । केरलानां राष्ट्रस्य राजा, केरलस्य राज्ञोऽपत्यं वा = केरलः । [आधारयः] आधार 'यांक प्रापणे' (१०६२) या । आधारं यातीति । 'आतो डोऽह्वा-वा-मः' (५।११७६) डप्र० → अ । 'डित्यन्त्यस्वरादेः' (२।१।११४) आलुक् । आधारयाणां राजा, आधारयस्य राज्ञोऽपत्यं वा = आधारयः । 'दु-नादि-कुर्वित्०' (६।१।११८) ज्यप्र० । अनेन लुप् । [विधारयः] 'धृग् धारणे' (८८७) धृ । धरन्तं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प्र० । 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० आर् । धारयतीति धारयः । 'साहि-साति-वेद्युदेजि-धारि-पारि-चेतेरनुपसर्गात्'
SR No.009970
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy