SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । [कुन्तयः ] कुन्तीनां राष्ट्रस्य राजानः, कुन्तेः राज्ञोऽपत्यानि वा = कुन्तयः । [वासात्यः ] 'वसं निवासे' (९९९) वस् । वसतीति । 'वस्यतिभ्यामाति:' (उणा० ६६२) आतिप्र० । वसातीनां राष्ट्रस्य राजा, वसातेः राज्ञोऽपत्यं वा = वासात्यः । [वसातयः] वसातीनां राष्ट्रस्य राजानः, वसातेः राज्ञोऽपत्यानि वा = वसातयः । [चैद्यः] 'चदु दीप्त्यालादयोः' (३१३) चद् । चन्द्यते व्यवहारिभिः = चेदयः । 'पदि-पठि-पचि०' (उणा० ६०७) इप्र० । बाहुलकात् अस्य एत् । चेदीनां राष्ट्रस्य राजा, चेदेः राज्ञोऽपत्यं वा = चैद्यः । [चेदयः] चेदीनां राष्ट्रस्य राजानः, चेदेः राज्ञोऽपत्यानि वा = चेदयः । [काश्यः] 'काशृङ् दीप्तौ' (८३०) काश् । काश्यन्ते व्यवहारिभिः । 'पदि-पठि-पचि-स्थलि-हलि-कलि-बलिवलि-वल्लि-पल्लि-कटि-चटि-वटि-वधि-गाध्यचि-वन्दि-नन्द्यवि-वशि-वाशि-काशि-छदि-तन्त्रि-मन्त्रि-खण्डि-मण्डिचण्डि-यत्यञ्जि-मस्यसि-वनि-ध्वनि-सनि-गमि-तमि-ग्रन्थि-श्रन्थि-जनि-मण्यादिभ्यः' (उणा० ६०७) इप्र० । काशीनां राष्ट्रस्य राजा, काशेः राज्ञोऽपत्यं वा = काश्यः । [काशयः ] काशीनां राष्ट्रस्य राजानः, काशेः राज्ञोऽपत्यानि वा = काशयः । [कौशल्यः] कोशल । कोशलानां राष्ट्रस्य राजा, कोशलस्य राज्ञोऽपत्यं वा = कौशल्यः । [कोशलाः] कोशलानां राष्ट्रस्य राजानः, कोशलस्य राज्ञोऽपत्यानि वा = कोशलाः । [आजाद्यः] अजा 'दोंच् छेदने' (११४८) दो । 'आत् सन्ध्यक्षरस्य' (४।२।१) दा । अजां द्यन्ति(ति) = अजादः । 'आतो डोऽह्वा-वा-मः' (५।१७६) डप्र० → अ । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्त्यस्वरादिलोपः । अजादानां राष्ट्रस्य राजा, अजादस्य राज्ञोऽपत्यं वा = आजाद्यः । [अजादाः] अजादानां राष्ट्रस्य राजानः, अजादस्य राज्ञोऽपत्यानि वा = अजादाः । सर्वेषु अनेन ज्यप्र० → य । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७।४।१) वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अवर्ण-इवर्णलुक् । यत्र जस् तत्र 'बहुष्वस्त्रियाम्' (६।१।१२४) ज्यलुप् । प्र० जस् । [कौमारः] कुमार 'गौरादिभ्यो मुख्यान्डीः' (२।४।१९) ङी० → ई० । 'अस्य ङ्यां लुक्' (२।४।८६) अलुक् । कुमारीणां राष्ट्रस्य राजा, कुमार्या राज्ञोऽपत्यं वा = कौमारः । 'राष्ट्र-क्षत्रियात् सरूपाद् राजाऽपत्ये दिरञ्' (६।१।११४) अप्र० । वृद्धिः । 'अवर्णेवर्णस्य' (७४/६८) ईलुक् । 'नामग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्' (न्या० सं० वक्ष० (१) / सूत्र (१६)) इति न्यायात् क्षत्रियासरूपस्यापि परिग्रहः ॥छ। पाण्डोर्यण् ॥ ६।१।११९ ॥ [पाण्डोः] पाण्डु पञ्चमी ङसि । [ड्यण् ] ड्यण् प्रथमा सि । [पाण्ड्यः ] 'पनि स्तुतौ' (७४८) पन् । पन्यन्ते । 'पनेर्दीर्घश्च' (उणा० ७६६) डुप्र० - दीर्घश्च । पाण्डूनां राष्ट्रस्य राजा, पाण्डोः राज्ञोऽपत्यं वा = पाण्ड्यः । अनेन ड्यणप्र० → य । 'डित्यन्त्यस्वरादेः' (२।१।११४) उलोपः । [पाण्ड्यौ] पाण्डूनां राष्ट्रस्य राजानौ, पाण्डोः राज्ञोऽपत्ये वा = पाण्ड्यौ ।
SR No.009970
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy