SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ २२ मलधारि-श्रीनरचन्द्रसूरि - विरचितः एच्छ्य्यादौ ॥ १.५७ ॥ [पाद:- १ [ सेज्जा ] । शय्या । शषोः सः । द्यय्यर्यां जः । एत्वे कृते तैलादित्वाद् द्वित्वम् । एवं प्रायोऽन्यत्राऽपि । प्रथमं तु द्वित्वे 'आवासय'मित्यादावपि लुप्तयरवशषसामिति दीर्घात् प्राक् सकारस्य द्वित्वप्रसङ्गः ॥ [ सुंदेरं ] । सौन्दर्य । उत् सौन्दर्यादौ । ब्रह्मचर्यतूर्येति र्यस्य रः ॥ [ गेंदुअं ] । कन्दुक । मरकतमदकले गः कन्दुके त्वादौ(देः) इति कस्य गः ॥ [ एत्थ ] । अत्र । त्रपो हि [ह]त्था: ।। १.५७ ॥ वल्लयुत्कर- पर्यन्ता-ऽऽश्चर्ये वा ॥ १.५८ ॥ [पेरंतो, पज्जंतो ] । पर्यन्त । एतः पर्यन्ते र्यस्य रः । द्यय्यर्यां जः । अनादौ शेषादेशयोर्द्वित्वम् ॥ [ अच्छेरं; अच्छरियं, अच्छअरं, अच्छरिज्जं, अच्छरीयं ] । आश्चर्य । ह्रस्वः संयोगे । ह्रस्वात् थ्यश्चत्सेति छ । द्वितीयतु० । आश्चर्ये रः । पक्षे अतो रियाररिज्जरीयं इति र्यस्य चत्वार आदेशाः ।। १.५८ ॥ - ब्रह्मचर्ये चः ॥ १.५९ ॥ [ बम्हचेरं ] । ब्रह्मचर्य । सर्वत्रेति रलुक् । पक्ष्मश्मष्मस्मह्मां म्हः । ब्रह्मचर्यतूर्य० - र्यस्य रः ।। १.५९ ॥ तोऽन्तरि ॥ १.६० ॥ [ अंतेउरं, अंतेआरी ] । अन्तर् - पुर, अन्तर् - चारिन् । ङञणनो व्यञ्जने । अन्त्यव्यञ्जनस्य - रलुक् ॥ [ अंतो ] | अन्तः सप्तम्यन्तः संस्कृतसिद्धः । अतो डो विसर्गस्य इति डो वीसंभनिवेसिआणं । विश्रम्भनिवेशित । सर्वत्रेति रलुक् । लुप्तयरवशषसामिति दीर्घः । आम् । टा- आमोर्णः । जस्शस्ङसीति दीर्घः ॥ १.६० ॥ १. अच्छरिअं मु. २. अच्छरीअं मु.। ३. सेर्डो: - ताटि ।
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy