SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ १४४ सारावली । क्षमासुतः स्वोच्चमुपाश्रितो यदा रवीन्दुवाचस्पतिभिर्निरीक्षितः । भवेन्नरेन्द्रो यदि कुत्सितस्तदा समस्तपृथ्वीपरिरक्षणे क्षमः ॥ ८६ ॥ जायतेऽभिजिति यः शुभकर्मा भूपतिर्भवति सोऽतुलवीर्यः । नीचवेश्मकुलजोऽपि नरोऽस्मिन् राजयोग इति न व्यपदेशः ॥ ८७॥ गण्डान्तविष्टिपरिघव्यतिपातजात__ स्ताराधिपः समुदये यदि कृत्तिकायाम् । क्रीडेत्कृपाणफलकाहितचण्डवेग प्रोत्थापिताहितशिरोगुलिकाभिरीशः ॥ ८८॥ बुधोदये सप्तमगे बृहस्पती ___चन्द्रे कुलीरे सुखराशिगेऽमले । वियद्गते भार्गवनन्दने गृहे प्रशास्ति पृथ्वीं मनुजो निराकुलः ॥ ८९ ॥ एकान्तरगैर्विहगैः पनिश्चक्रं क्षितीश्वरं कुर्यात् । अत्रैव शुभे लग्ने सकलमहीपालको नृपतिः ॥ ९० ॥ अयमेव समुद्राख्यो द्वौ लग्ने यदि संस्थितौ । करोति भूभुजां नाथं सौम्यैः केन्द्रेषु संस्थितैः ॥ ९१॥ निरन्तरं यदि भवनेषु षटूसु ___ ग्रहाः स्थिता उदयगृहात्समस्ताः । खपतिदन्नरपतिमेव कुर्यु ___ श्चतुष्टयन्नरपतिमत्रिणं च ॥ ९२ ॥ सुतसुखदुश्चिक्यगता यदि कर्मणि कीर्तयन्ति यवनाद्याः । बन्धुसुतार्थगजाढ्यो बहुभृत्यो जायते क्षितिपः ॥ ९३॥ कर्मास्तजलहोरासु ग्रहाः सर्वे प्रतिष्ठिताः । कुर्वन्ति नगरं नाम यत्र स्यात्पृथिवीपतिः ॥ ९४ ॥ १ बली. २ जगति. ३ सव्यपदेशः. ४ वैधृतगृह. ५ स करोति भुवो. Aho! Shrutgyanam
SR No.009887
Book TitleSaravali
Original Sutra AuthorN/A
AuthorKalyanvarman, V Subhramanya Shastri
PublisherPandurang Javji
Publication Year1928
Total Pages268
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy