SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ १४३ पञ्चत्रिंशोऽध्यायः। तपोगृहं यस्य भवेत्तदुच्चकं ग्रहेण तेनाथ युतं निरीक्षितम् । ग्रहद्वयं स्खोचगतं यदा भवेत्तदा कुटुम्बी नियतं महीपतिः ७६ सुतभवने शशिदेवनमस्यौ भवनपतिप्रसमीक्षितदेहौ । भृगुतनयो यदि मीनसमेतो भवति नृपः खलु कुत्सितवंशः ७७ चन्द्रस्त्रिपुष्करस्थः स्खोचे वचसां पतिः सलक्ष्मीकम् । उत्पादयति स्वामिनमुत्तैमपात्रं समग्रभुवः ॥ ७८॥ केन्द्रस्वोच्चमुपेतः सुरगत्री दशमगो यदा शुक्रः । नूनं स भवति पुरुषः समस्तपृथ्वीश्वरः ख्यातः ॥ ७९ ॥ स्वर्खे शशी विपुलरश्मिशिखाकलापाः ___ स्वांशे स्थिता वुधबृहस्पतिदानवेज्याः । पातालगा दिनकरेण निरीक्षिताश्च संसूचयन्ति नृपतिं दिजमुख्यजातम् ॥ ८० ॥ रविनभस्थः स्वत्रिकोणगोऽपि वा स्वराशिसंस्थाः सितजीवचन्द्राः । तृतीयषष्ठायगताश्च चन्द्रात्कुर्वन्ति गोपालमिह क्षितीशम् ॥ ८१ ॥ सप्तमभवने सौम्या मित्रांशगताः सुहृद्भिरिह दृष्टाः । उच्चे कुजो यदि नृपः समस्तनृपपालकः श्रेष्ठः ॥ ८२ ॥ रविशशिबुधशुक्रॉग्नि मित्रांशकस्थै न च रिपुभवनस्थैर्नाप्यदृश्यैर्न नीचैः । स तपसि भृगुपुत्रे भूपतिः स्यात्प्रयाणे ___ गजमदजलसेकैलीयते यस्य रेणुः ॥ ८३॥ स्वोचे भानुः प्रकटितबलो व्योममध्ये सजीवः शुक्रो धर्मे यदि बलयुतः खं नवांशं प्रपन्नः । लग्ने वर्गे शुभगगनगो राजपुत्रेण दृष्टः पृथ्वीपालो धवलितजगत्स्यात्सितैः स्वैर्यशोभिः ८४ वृषे शशी लग्नगतः सुपूर्णः सितेन दृष्टो वणिजि स्थितेन । बुधोऽपि पातालगतो यदि स्यात्तदान्यजातो भवति क्षितीशः ८५ १ यदि देवनमस्यो. २ देहः. ३ नतमनसं. ४ शनिः , यदा. ५ नृप.. ६ वरैः. ७ विध्यते. ८ कुजयुतः. Aho! Shrutgyanam
SR No.009887
Book TitleSaravali
Original Sutra AuthorN/A
AuthorKalyanvarman, V Subhramanya Shastri
PublisherPandurang Javji
Publication Year1928
Total Pages268
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy