________________
वृद्धवसिष्ठ सिद्धान्तः ।
मृदुचलफलं च खचरे
सौम्यो मेषात् तुलाधराद्याम्यः ॥ १८ ॥ मन्दकेन्द्रोइवा दोर्ज्या परिध्यंशैर्गुणा हृता । चक्रांशैस्तद्धनुः खर्ण ग्रहे मन्दस्फुटो भवेत् ॥ १८ ॥ मन्दोनशौघ्रतो दोर्ज्या
कोटिज्याऽथ त्रिभज्यका १०००० I
खपरिध्यंशगुणिता
चक्रांश - ३६० विहृता फलम् ॥ २० ॥ तेन योगान्तरा पूर्वमानीता कोटिमौर्विका । केन्द्रे म्टगकुलीरादौ तहोयवर्गयोगतः ॥ २१ ॥ मूलं कर्णः परिधिना
हता दोर्ज्या खषड्गुणैः ३६० | लब्धत्रिज्या - १०००० हृतं
२॥
कभक्तं चापं तु शीघ्रजम् ॥ २२ ॥ कर्मणैकेन मान्देन स्पष्टो भानुस्तथा शशी । भौमादयः स्फुटाः खेटाश्चतुर्भिः कर्मभिः स्मृताः ॥ २३ ॥ मध्ये शीघ्रफलस्यार्धं मान्दं तस्मिन् फलस्य च । मध्ये मान्दफलं कृत्स्नं शीघ्रं चैवासकृत् स्फुटः ॥ २४ ॥ तद्भुक्तिर्ग्रहवत् कार्या भुक्तिर्दोर्ज्यान्तराहता । युगमेघ - १७४ विभक्तातैः खमन्दपरिधिर्हतः ॥ २५ ॥ चक्रांशत् कलादि स्यात् तत् फलं मध्यभुक्तिषु ।
3
Aho! Shrutgyanam