________________
ब्रह्मसिद्वान्तेविशिष्टः श्रावणो मासः खाध्यायनामुपक्रमें ॥ १३० ॥ तदर्थोपातदर्भस्तु कुर्यात् कर्माणि वत्मरम् । अयने विषुवे चैव शयने बोधने हरेः ॥ १३१॥ अनध्यायं प्रकुर्वीत मन्वादिषु युगादिषु । कार्तिके नवमी शक्ला तृतीया माधवे तथा ॥ १३२ ॥ माघे मन्वादयः कृष्णे नभस्ये च युगादयः । आश्वयुकशुक्ल नवमी कार्तिके हादशी तथा ॥ १३३ ॥ चैत्रे टतीया ज्येष्ठस्य पूर्णिमा द्वादशी शुचौ। चतवः फाल्गुने हादस्यूर्ज कृष्णाऽष्टमी मुने ॥ १३४ ॥ मन्वन्तरादयस्तेषु तेषामेवोद्भवः क्रमात् । नभःफालानयोः षणामेका चैकादशी सिता॥१३५॥ वैशाखज्येष्ठपोषाणां पूर्णिमा फालानोर्जयोः । माघामलद्दादशी च नभस्यामल चन्द्रिका ॥ १६६ ॥ शुचिस्त्रिंशोऽष्टमी कृष्णा द्वितीया च युगेऽमला । मन्वन्तरान्तस्तेषामेष्वनध्यायेषु निर्गमः ॥ १३७॥ यथाऽऽजप्तजनो मन्त्री राजानं प्रतिगच्छति । तथा गन्वादयः सर्वे ब्रह्माणमुपतस्थिरे ॥ १३८ ॥ तिखोऽष्ट का अनध्यायाः सप्तम्याद्या मुनीश्वर । पर्वगादिषु मासेषु विषुवायनसंयुताः ॥ १३६ ॥ प्रशस्ता इति पञ्चाशत् तिथयः पार्वणे मुने । उपक्रमात्र त्रिदिनं पक्षाः पञ्चदशापि च ॥ १४० ॥
Aho ! Shrutgyanam