SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ अंक १] फारसी भाषामां ऋषभदेव स्तवन [२७ हरामु व्यर्थं, निवासइ न भवति । कोऽर्थः यदि न तुष्टो न रुष्टोऽसि ततस्तव नमस्कारो राजप्रसाद कथं ददाति, कथं व्यर्थो न स्यादित्यर्थः । ८. जानूउरु त्ति जीवान् , यो मेकुसइ हंति, स विहास्ति स्वर्ग, न मिदिहदि न प्राप्स्यति । किं तु बिल्ल इति निश्चितं, बुचिरुक स्थूलानि, दोजखीधंग नरकदुःखानि प्रभूतानि, तस्य हस्ति भवति । अतएव तव सेवको जंतून्न हंतीत्यर्थः । दूहक षट्कं । ९. अस्तारा नक्षत्रं, तेरीखु तिथिः, छ, (ब) इति भावाविशेषे, दातु शरीरं, साले संवत्सरः, साते घटिका, दीग प्रभातं, नु वाक्यालंकारे । सरात (भ?) य्यं एतानि स्थानानि, भव्यानि अद्य मम जातानि, ये यतः, चिस्म नेत्रद्वयन, तुरा तव रू मुखं दीद दृष्टं, कार प्रयोजनानि, सउ सर्वाणि कार्याणि संपूर्णानि बभुधुरिति भावार्थः । चतुष्पदी छन्दः । दीद इति विलोकितं । तथा च-- आदिष्टां फरमु इति वस्तुलिखितं गृल्फँ गृहीतं नतं रल्फ दीद विलोकितः परिहृतं हिस्तुं जुडा योजितं । दत्तं दाद तिषीदमध्य चटितं जदं यदभ्याहितं गुफ्त कृतं च कर्तु तदहो भग्नं च इस्किस्तयं ॥ १०. मही मत्स्यः, उस्तुरु उधः, गाउ गौः, गाउनर बलीवर्दः, खूग शूकरः, पलंगश्चत्रका, आहू कृष्णसारः, गुरुवा मार्जारः, मुरुग कुर्कुटर, सेरु व्याघ्रः, ग्रामेसि महिषी, कुलग काकः, मगस मक्षिकाः, सितारिका काबरिः, मारु पन्नगः, वायु (बाजु) श्येनः, गावसु ऋक्षुः, ताऊसग मयूरः, ऊ. यजकु गृहगोधीका, मखलु तीड, कुतान मत्कुणः, खयख चंचटः, सगु श्वा, बत हंसः, बुज अजा, मूसग मूषकाः, एतैः शब्दैः तिर्यंचा प्रतिपादिताः । सांप्रतं, कुमानुषयोनयः-दूर्जयौ खउसार चर्का (चर्म ? ) कारः, नकासु चित्रकारः, जनि महिला, दरजीउ सूचिकः, जरी सुवर्णकार:, हजाम नापित इत्यादि अन्या अपि विकृतिजातयो ग्राह्याः। जातिग्रहणे तज्जातीयस्यापि ग्रहणमिति वचनात् । हे जिन ! ते वासइं भवंति ये तव नमस्कार [न] कुर्वति । कोऽर्थः-तव नमस्कारमकृत्वा तिर्यग्योनौ पूर्वोक्तस्वरूपेषु सत्त्वेषु कुमानुषत्वे च जीवा उत्पद्यंत इति भावः । ११. शहरु पत्तनं, दिह ग्रामः, उलात देशः, छत्रु छत्र, छत्र ग्रहणात् राज्यं ज्ञेयं । खापूर कर्पूर, ऊदु अगुरुः, मिसकि कस्तुरी, जरु सुवर्णं, नवातु शर्करा, वांद स्वामिन् , रोजी विभूतिः, दरास विस्तीर्णः, कसव ईक्षुः, पिमि (सि ?) पार्श्व, तुरा तव, इं एष मल्लक्षणो जनः । नो नैव, शराभज्ज पूर्वोक्तं वस्तुजातं, मेषुहीई याचेत, किंतु हे ऋषभ हथमु न्यायं, दोस्ती सर्वस्यापि मैत्री बंदिन इयदेव त्वं मे दहीति देयाः । कोऽर्थः अहं अ [न्य ] त् किमपि न याचे किंतु त्वं मम न्यायं मैत्रीमेव देया इति भावार्थः। _अस्मिंस्तवने क्वचित् पारसी क्वचित् आरब्बी क्वचिदपभ्रंशो ज्ञेयः । तुरा मरा इति सर्वत्र संबंधे संप्रदाने च ज्ञातव्यं । तथा च कुरानकार: Aho I Shrutgyanam
SR No.009881
Book TitleJain Sahitya Sanshodhak Khand 03 Ank 01 to 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJain Sahitya Sanshodhak Samaj Puna
Publication Year1924
Total Pages290
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy