SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ ३८० श्रीशान्तिनाथचरित्रे पाखें सा याचिता दत्ता जिनस्येति च सोऽब्रवीत् ॥ ३० ॥ ततो रुष्टः स दुष्टात्मा मारणात्मिकया धिया। संजातो जिनदत्तस्य च्छिद्रान्वेषी दिवानिशम् ॥ ३८ ॥ अखवाहिकया राज्ञो गतस्योद्यानमन्यदा। पपात कुण्डलं कर्णाचलत्यश्वेऽतिरंहसा ॥ ३८ ॥ तञ्चागतेन विज्ञातं तेन राजकुले ततः । वसुदत्तः समादिष्टस्तदन्वेषण हेतवे ॥ ४० ॥ तदर्थं सोऽचलद्यावत्तावत्तस्य पुरःसरः । जिनदत्तो बहिर्गन्तुं प्रवृत्तोऽर्थेन केनचित् ॥ ४१ ॥ दृष्ट्वा तत्कुगडलं मागें सोऽय दूरमपासरत् । लोष्टुवत् परट्रव्याणि यतः पश्यन्ति साधवः ॥ ४२ ॥ वसुदत्तोऽपि तत्रागात् किमेतदिति चिन्तयन् । दृष्ट्वादाय च तच्छौघ्रमार्प यच्चावनीपतेः ॥ ४३ ॥ राजा प्रोवाच भो भट्र ! कुतो लब्धमिदं त्वया । जिनदत्तान्मया प्राप्त मित्यूचे स च दुष्टधीः ॥ ४४ ॥ जिनदत्तोऽपि किं नाम परद्रव्यं हरत्यहो ! । इति पृष्टे नरेन्द्रेण वसुदत्तोऽभ्यधात् पुनः ॥ ४५ ॥ समानो जिनदत्तेन तस्करः कोऽपि नाऽपरः । यः सदा पश्यतोऽप्यथं परस्माटु हरति प्रभो ! ॥ ४६ ॥ वध्य आज्ञापितो राज्ञा ततोऽयं क्रुद्धचेतसा । वसुदत्तोऽपि बड़ा तं रासभारोपितं व्यधात् ॥ ४७ ॥ (१) ङ ज-कर्मणि ।
SR No.009708
Book TitleShantinath Charita Part 04
Original Sutra AuthorAjitprabhacharya
AuthorIndravijay
PublisherAsiatic Society
Publication Year1914
Total Pages104
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy