SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ पञ्चमः प्रस्तावः । प्राणेश ! मम यामी ते पूर्वजे तत्तवाज्ञया । मिलना तयोर्यामीत्युक्ते सा भणिताऽमुना ॥ ८५ ॥ याहि देवि ! भगिन्यौ ते कुमारेण समन्विते । इहानय यतस्तत्र वर्तेते ते सुदुःखिते ॥ ८६ ॥ करेणुकासमारूढा परिवारसमन्विता । धृतच्छत्त्राऽथ सा यावच्छ्रेष्ठिनः सदनं गता ॥ ६७॥ श्रेष्ठी ससम्भ्रमस्तावदुपचारमनेकशः । कर्तुं प्रवृत्तोऽलमिति तयैव हि निवारितः ॥ ६८ ॥ (युग्मम्) धारिणोविमलानाम्नोस्तयोर्नत्वा क्रमानय । कथयित्वाऽऽत्मनो वातीं वत्सराजोऽभ्यधादिदम् ॥ ८८ ॥ हाऽस्ति भूपतिर्योऽसौ युवयोर्भगिनीपतिः । संप्राप्ता भगिनी सा वा मिलनाय गृहाजिरे ॥ ५०० ॥ जानीवोऽदः परं ह्यात्मा क्रिया वत्सक ! गोपितः । इत्युक्तवन्त्यौ ते हर्षाद निःसृते मन्दिरादहिः ॥ १ ॥ करेणुकाया उत्तीर्य लगित्वा कण्ठकन्दले । भगिन्योः कमलश्रीः सा रुदत्येवमभाषत ॥ २ ॥ हा ! जाता दारुणावस्था युवयोः कथमीदृशी ? | दोषोऽथवा विधेरेव यत् सतां विपदागमः ॥ ३ ॥ इहागताभ्यामप्यात्मा युवाभ्यां किं निगूहित: ? । संप्राप्ते व्यसने दैवात् का त्रपा शुभकर्मणाम् ? ॥ ४ ॥ अथवाऽहमधन्यैव वसन्त्यौ नगरे निजे । स्वसारौ न यया ज्ञाते पुत्ररत्नान्विते अपि ॥ ५ २८५
SR No.009708
Book TitleShantinath Charita Part 04
Original Sutra AuthorAjitprabhacharya
AuthorIndravijay
PublisherAsiatic Society
Publication Year1914
Total Pages104
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy