SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ २८४ श्रीशान्तिनाथचरित्र अथान्येारुपाध्यायो यहोवा तान् कुमारकान् । वत्सराज 'समाकार्य समीपे भूपतेर्ययौ ॥ ८५ ॥ प्रणिपातं विधायास्य निषेदुस्ते यथोचितम् । वत्सराजकुमारं च दृष्ट्वा पप्रच्छ तावृपः ॥ ८६ ॥ को नु वत्साः ! कुमारोऽयं दृश्यते युष्मदन्तिके ? । प्रतिपन्नसगर्भोऽयमस्माकमिति तेऽब्रुवन् ॥ ८७ ॥ तत: पृष्टोऽमुनाऽऽचार्यो भद्रायं कस्य नन्दनः ? । विज्ञानं कीदृशं वाऽस्येत्युक्तः सोऽवोचदञ्जसा ? ॥ ८८॥ राजन्नस्य कुमारस्य सम्यग् जानामि नान्वयम् । विज्ञानेन पुनः पृथ्वयां तुल्यो नास्त्यस्य कश्चन ॥ ८ ॥ अथो राज्ञः कुमारैस्तैः स्वविज्ञाने प्रदर्शिते । वत्सराजोऽपि तत्तस्य सविशेषमदर्शयत् ॥ १० ॥ दृष्टो राजाऽवदहम ! शंस गोत्रं निजं मम । स्थगितानां मौक्तिकानां ना? विज्ञायते यत्तः ॥ १ ॥ विज्ञायाऽवसरं तेन सकलाऽपि निजा कथा। मूलादारभ्य नि:शङ्गमाचचक्षेऽस्य सूमृता ॥ २ ॥ ततो राज्ञः समीपस्था कमलश्रीति वल्लभा । मादृष्वसा कुमारस्य तच्छ्रुत्वोचे ससम्भमम् ॥ १३ ॥ हे वत्म ! किमिहायात धारिणीविमले अपि ? । प्रामेति भणिते तेन सोवाच जगतीपतिम् ॥ ८४ ॥ (२) ड सहाकार्य ।
SR No.009708
Book TitleShantinath Charita Part 04
Original Sutra AuthorAjitprabhacharya
AuthorIndravijay
PublisherAsiatic Society
Publication Year1914
Total Pages104
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy