SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ पञ्चमः प्रस्तावः । २४८ विज्ञेयो वलिपलितनाशः पक्षिरुतं तथा । कला हिसप्ततिश्चैता विवद्भिः परिकीर्तिताः ॥ १८ ॥ कलाकलापसम्पूर्णौ रूपनिर्जितमन्मथो । क्रमेण यौवनं प्राप्तो कुमारी तो बभूवतुः ॥ २० ॥ सुमन्दिरपुराधीशनिहतारिनृपाऽऽत्मजे । उपयेमे मेघरथः प्रियमित्रामनोरमे ॥ २१ ॥ तस्यैव भूपतेः पुत्री कनिष्ठा रूपसंयुता। पत्नी दृढरथस्यापि जज्ञे सुमतिसंज्ञका ॥ २२ ॥ नन्दिपणमेघसेनाऽभिधानी वरनन्दनौ । जातो 'मेघरथस्याऽथ पत्नौहितयसंभवो ॥२३॥ पुत्रो दृढरथस्यैको रथसेनाभिधोऽभवत् । ते त्रयोऽपि कलाऽभ्यासं समये चक्रिरेऽखिलम् ॥ २४ ॥ राजा मेघरथोऽन्येद्युः पुत्रपौत्रसमन्वितः । सिंहासननिविष्टोऽधितष्ठावास्थानमण्डपम् ॥ २५ ॥ प्रोक्ता मेघरथेनाथ न वाधीता निजात्मजाः । वत्साः ! प्रज्ञाप्रकाशाऽयं ब्रूत प्रश्नोत्तराणि च ॥ २६ ॥ ततस्तद्वचनानन्तरमेव एकेन कनिछेन पठितम् : कथं संबोध्यते ब्रह्मा दानार्थो धातुरत्र कः ? । कः पर्यायश्च योग्यानां को वाऽलङ्गरणं नृणाम् ? ॥ २७॥ (१) टु मेघर यस्येमौ विन यादिगुणैर्युतौ ।
SR No.009707
Book TitleShantinath Charita Part 03
Original Sutra AuthorAjitprabhacharya
AuthorIndravijay
PublisherAsiatic Society
Publication Year1910
Total Pages108
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy