SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ श्रीशान्तिनाथचरित्र अशीतिपूर्वलक्षाणि चतुर्भिरधिकान्यथ । आयुः प्रपूयं सोऽनन्तवीर्यो विष्णुर्व्यपद्यत ॥ ११ ॥ संवत्सरद्विचत्वारिंशत्सहस्रायुरादिमे । खभे नारकिको जन्जे 'स निकाचितकर्मभिः ॥ १२ ॥ तहियोगऽपरः शोकमस्तोकं विदधे ततः । नौतिधर्मविदग्धेन मन्त्रिणेवमभाणि सः ॥ १३ ॥ यदि मोहपिशाचेन छल्यन्ते त्वादृशा अपि । तदा किमपरं धौर ! धीरता संश्रयत्वियम् ॥ १४ ॥ इति तहचसा किञ्चिद् गतशोको बभूव सः। . अन्यदा गणभृत् तत्राऽऽययो नाम्ना यशोधरः ॥ १५ ॥ विज्ञायाऽऽगमनं तस्य वन्दनार्थमगादसौ। भक्त्या षोडशभिर्भूपसहस्रैः परिवारितः ॥ १६ ॥ नत्वा गणधरेन्द्रं तं निषस्मोऽसौ यथास्थिति । कृताञ्जलिपुटो धर्मदेशनामशृणोदिति ॥ १७ ॥ शोकोऽभीष्टवियोगेन जायते दारुणो जने । स सद्भिः परिहर्तव्यस्तत्स्वरूपमिदं यतः ॥ १८ ॥ नामान्तर: पिशाचोऽयं पाप्मा रूपान्तरस्तथा । तारुण्यं तमसो होष विषस्यैष विशेषतः ॥ १८ ॥ (१) क ण द स्खनिका- । ङ ऽसौ। (२) ङ तदा कमपरं विश्वे धीरा यं संश्रयन्ति हि। (३) च ज विषयस्य ।
SR No.009706
Book TitleShantinath Charita Part 02
Original Sutra AuthorAjitprabhacharya
AuthorIndravijay
PublisherAsiatic Society
Publication Year1909
Total Pages105
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy