SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ ११४ श्रीशान्तिनाथचरित्रे उवाच भूपतिर्ना' माघटमानं किमत्र भोः ! । मेघवृन्दोद्भवा विद्युद् भवेत् प्राणहरी न किम् ? ॥ ४० ॥ इतरः स्माह यद्येवं तदियं दर्श्यतां मम । यतः साध्यामसाध्यां वा वेद्मि दृष्ट्या विलोक्य ताम् ॥ ४१॥ गत्वा विलोकयेत्युक्तो राज्ञा तत्र जगाम सः | सुप्तोत्थिता कुमारी सा तमायान्तमलोकयत् ॥ ४२ ॥ दध्यौ चैवं नरः सोऽयं येन मे कटकं हृतम् । मन्ये त्वाऽऽज्ञापितो राज्ञा यन्निःशङ्कः समेत्य लम् ॥ ४३ ॥ तया दत्तासने सोऽथोपविश्यैवमवोचत | मया ह्यारोपितं सुभ्रु ! कलङ्कं 'सुमहत् तव ॥ ४४ ॥ अर्पयिष्यति भूपालो मम त्वामद्य सुन्दरि ! | ततः स्थानं नयामि स्वं तव चेत् सम्मतं भवेत् ॥ ४५ ॥ नो चेदियत्यपि गते ऽकलङ्कां त्वां करोम्यहम् । त्वया जलाञ्जलिर्भद्रे ! मम देयस्तदा पुनः ॥ ४६ ॥ तच्छ्रुत्वाऽचिन्तयदसौ कन्या तद्गुणरञ्जिता । अहो अकृत्रिमप्रेमा कोऽप्यसौ पुरुषो मयि ॥ ४७ ॥ 8 (१) खघ ज झ म घटते न किमत्र भोः I (५) ङ ञ ट -ष्टाऽव- । (३) ङ ञ ट - त्वाऽव- । (४) द - शङ्कं । (५) ङ -त्यसौ (६) ञ ञ ट द सुमहत्तरम् । 1
SR No.009706
Book TitleShantinath Charita Part 02
Original Sutra AuthorAjitprabhacharya
AuthorIndravijay
PublisherAsiatic Society
Publication Year1909
Total Pages105
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy