SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ द्वितीयः प्रस्तावः । किमेतदिति भूपेन पृष्टो मत्स्योदरः सुधीः । हृद्युपायं विचिन्त्योचे देवायं सत्यमूचिवान् ॥ ८ ॥ अस्मिंश्च नगर पूर्व मातङ्गोऽभूत्विताऽऽवयोः । महागायन इत्यर्वीपतेः प्रणयभाजनम् ॥ १० ॥ तस्याभूतामुभे भार्ये तयोरावां सुत्तौ प्रभो। मनागनिष्टा मे माता तदनिष्टोऽप्य हं पितुः ॥ ११ ॥ सुदीर्घदर्शिना तेन क्षिप्तानि जनकेन मे । जङ्घान्तः पञ्चरत्नानि तत्प्रहारश्च रोहितः ॥ १२ ॥ भणितं चेति यहत्स विपद्येतानि भक्षयेः ।। साङ्गेष्वपि तेनास्य 'संक्षिप्तानि धनानि तु ॥ १३ ॥ ततो विदार्य जङ्घा स्वां तानि रत्नान्यदर्शयत् । प्रत्ययार्थं महीभक्षुधनदो मतिमहरः ॥ १४ ॥ ततो गीतरती राजादेशाबड्डा पदातिभिः । विदारयितुमारब्धो जज ल्यैवं सुदीनवाक् ॥ १५ ॥ स्वामिन्नेष न मे माता कि विदं कर्म गर्हितम् । रैदानात्सार्थवाहेन पापाना कारितोऽस्माहम् ॥ १६ ॥ प्रतीतिर्यदि ते देव मदगिरा नहि जायते । तदानाययत स्वमसङ्घाटांस्तान्ममौकसः ॥ १७ ॥ राजाऽप्यालोकयामास मत्स्योदरमुखं पुनः । प्रत्यचे पार्थिवं सोऽपि सत्यमेतदपि प्रभो ॥ १८ ॥ (१) ग च ट ड त थ सन्नि क्षिनानि तानि तु ।
SR No.009705
Book TitleShantinath Charita Part 01
Original Sutra AuthorAjitprabhacharya
AuthorIndravijay
PublisherAsiatic Society
Publication Year1909
Total Pages104
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy