SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ ७४ श्रीशान्तिनाथचरित्र अयं स्थगोधरो राज्ञः किमु भद्र क्रमागतः । तेनापि कथितं तस्य तत् स्वरूपं यथातथम् ॥ ८ ॥ अत्रान्तरे च मातङ्गो गौरव्यस्तस्य भूपतेः । आगाद् गीतरतिर्नाम्ना सार्थवाहस्य सनिधी ॥ ४०० ॥ ततो गातं प्रवृत्तोऽसौ निजवन्दसमन्वितः । रञ्जितः सार्थवाहोऽपि तद्गीतकलयाऽग्राया ॥ १॥ दानेन तोषयित्वेनमूचे भो यदि मामकम् । कार्य साधयसि त्वं तत् द्रव्यं यच्छामि ते बहु ॥ २ ॥ सोऽवदत्साधयिष्यामि सर्व कथय मे स्फुटम् । वशे यस्य महीपालस्ततः किं मे सुदुष्करम् ॥ ३ ॥ सार्थवाहोऽब्रवीत्तर्हि त्वयैकान्ते महीपतिः । एवं वाच्यो यथा मत्स्योदरोऽयं मम बान्धवः ॥ ४ ॥ अङ्गीकृतेऽथ तत्कार्ये स तस्मै प्रीतमानसः । सङ्घाटांश्चतुरः स्वर्णेष्टिकानां प्रददौ सुधीः ॥ ५ ॥ ययो च नृपतेः पार्वे सभासीनस्य तस्य तु । मातङ्गोऽपि 'समभ्येत्य पुरो गातुं प्रचक्रमे ॥ ६ ॥ तगीतरञ्जितो राजा स्थगीधरमवोचत । देहि ताम्बूलमेतस्मै गान्धर्विकवराय भोः ॥ ७ ॥ ताम्बूलं ददतस्तस्य ल गित्वा कण्ठकन्दले । चिराद् दृष्टोऽसि हे भ्रातरिति जल्पन् रुरोद सः ॥ ८ ॥ (१) ग च तदाऽभ्येत्य।
SR No.009705
Book TitleShantinath Charita Part 01
Original Sutra AuthorAjitprabhacharya
AuthorIndravijay
PublisherAsiatic Society
Publication Year1909
Total Pages104
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy