SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ २६ श्री शान्तिनाथचरित्रे ततो वस्त्राणि सर्वेभ्यो यथायुक्तमदत्त सा । तस्मै निजाङ्गलग्नं च वासोयुग्मं मनोहरम् ॥ ४८ ॥ उवाच च कलाचार्यमेतन्मध्यात् त्वदान्नया । यो जानाति स आख्यातु च्छात्रो मम कथानकम् ॥ ४८ ॥ सरपोया छात्रेर्निर्दिष्टः सोऽथ मङ्गलः । उपाध्यायगिरा धीमान् वक्तुमेवं प्रचक्रमे ॥ ५० ॥ चरितं कल्पितं किं वा कथयामि कथानकम् । साऽवदचरितं ब्रूहि, पर्याप्तं कल्पितेन भोः ॥ ५१ ॥ मङ्गलश्चिन्तयामास सैषा त्रैलोक्यसुन्दरी । चम्पापुर्यां भाटकेन परिणीता हि या मया ॥ ५२ ॥ केनापि हेतुनेहागात् भूत्वा पुंवेषधारिणी । भवत्वेवं कथां तावत् कथयामि निजामहम् ॥ ५३ ॥ जगाद च कथा लोकप्रिया चित्रकरी भवेत् । सा च वृत्ता मदीयेऽङ्गे तामाख्यामि निशम्यताम् ॥ ५४ ॥ ततश्वात्मकथा तेनादितस्तत्र प्रकाशिता । तावद्यावदमात्येन गृहानिर्वासितोऽस्माहम् ॥ ५५ ॥ अत्रान्तरे कृतालोककोपा राजसुताऽवदत् । अमुं गृह्णीत गृहीत रे रे मिथ्याभिभाषिणम् ॥ ५६ ॥ इत्युक्ते पत्तयस्तस्यास्तद्ब्रहार्थं समुद्यताः । तयैव वारिताः शीघ्रं स चानोतो गृहान्तरे ॥ ५७ ॥ अथेनमासनेऽध्यास्य सिंहमूचे नृपात्मजा । अयि येनाहमूढाऽस्मि स एवायं प्रियो मम ॥ ५८ ॥
SR No.009705
Book TitleShantinath Charita Part 01
Original Sutra AuthorAjitprabhacharya
AuthorIndravijay
PublisherAsiatic Society
Publication Year1909
Total Pages104
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy