SearchBrowseAboutContactDonate
Page Preview
Page 783
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम्। प्रकाशन I७२८॥ इन्द्रियैः सममाकृष्य विषयेभ्यः प्रशान्तधीः। धर्मध्यानकृते तस्मान्मनःकुर्वीत निश्चलम् ॥६॥ इन्द्रियैः सह मनो बाह्यविषयेभ्य आकृष्येत्यनेन प्रत्याहारकथनम् । यदुक्तमस्माभिरभिधानचिन्तामणौ-- "प्रत्याहारस्त्विन्द्रियाणां विषयेभ्यः समाहृतिः" । मनः कुर्वीत निश्चलमिति प्रत्याहारानन्तरोपदिष्टाया धारणाया उपक्रमः ॥६॥ धारणास्थानान्येवम्-- नाभीहृदयनासोग्रभालभूतालुदृष्टयः मुख कर्णौ शिरश्चेति ध्यानस्थानोन्यकीर्तयन् ॥७॥ ध्यानस्थानानीति ध्याननिमित्तस्य धारणायाः स्थानानि ॥७॥ धारणायाः फलमाह-- एषामेकत्र कुत्रापि स्थाने स्थापयतो मनः। उत्पद्यन्ते स्वसं वित्तेर्बहवः प्रत्ययाः किल ॥८॥ प्रत्ययाः वक्ष्यमाणाः । शेषं स्पष्टम् ॥८॥ इति परमाईतश्रीकुमारपालशुश्रषिते आचार्यश्रीहेमचन्द्रविरचितेऽध्यात्मोपनिषनाम्नि संजातपट्टबन्धे श्रीयोगशास्त्रे स्वोपज्ञं षष्ठप्रकाशविवरणम् ॥६॥ ॥७२८॥
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy