SearchBrowseAboutContactDonate
Page Preview
Page 781
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम् ॥७२६॥ नराश्वकरिकायेषु प्रविशन्निःसरन्निति । कुर्वीत संक्रमं पुस्तोपलरूपेष्वपि क्रमात् ॥ २७१॥ स्पष्टाः ॥२६४ - २७१ ॥ उक्तमुपसंहरन् वाच्यशेषमाह- एवं परोसुदेहेषु प्रविशेद्वामनासयो । जीवद्देहप्रवेशस्तु नोच्यते पापशङ्कया ॥ २७२ ॥ पापशङ्कयेति जीवद्देहप्रवेशे हि परस्य प्राणप्रहाणं स्यात्, तच्च पापं शस्त्रघातादिवनोपदेष्टव्यं । न च परोपघातमन्तरेण जीवत्परपुरप्रवेशः संभवति । तथाहि- ब्रह्मरन्ध्रेण निर्गत्य प्रविश्यापानवर्त्मना । श्रित्वा नाभ्यम्बुजं यायात् हृदम्भोजं सुषुम्णया ॥१॥ तत्र तत्प्राणसंचारं निरुन्ध्यानिजवायुना । यावद्देहात्ततो देही गतचेष्टो विनिष्पतेत् ॥२॥ तेन देहे विनिर्मुक्ते प्रादुर्भूतेन्द्रियक्रियः । वर्तेत सर्वकार्येषु स्वदेह इव योगवित् ||३|| दिना वा दिनं चेति क्रीडेत् परपुरे सुधीः । अनेन विधिना भूयः प्रविशेदात्मनः पुरम् ||४|| २७२ || परपुरप्रवेशफलमाह- क्रमेणैवं परपुरप्रवेशाभ्यासशक्तितः । विमुक्त इव निर्लेपः स्वेच्छया संचरेत् सुधीः॥ २७३॥ स्पष्टः ॥ २७३॥ इति परमातुश्री कुमारपालशुश्रूषिते आचार्यश्री हेमचन्द्रविरचितेऽध्यात्मोपनिषद्नाम्नि संजातपट्टबन्धे श्री योगशास्त्रे स्वोपज्ञं पञ्चमप्रकाशविवरणम् ||५|| पश्चमः प्रकाशः । ॥७२६ ॥
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy