SearchBrowseAboutContactDonate
Page Preview
Page 773
Loading...
Download File
Download File
Page Text
________________ योग. काखम्। प्रकाशः। al हस्ताङ्गुलिस्कन्धकेशपार्श्वनासाक्षये कमात् । दशाष्टसप्तपञ्चत्र्येकवर्षे मरणं दिशेत् ॥२१३॥ ' षण्मास्या म्रियते नाशे शिरसश्चिबुकस्य वा । ग्रीवानाशे तु मासेनैकादशाहेन दृक्क्षये ॥२१४॥ १७२८॥ A सच्छिद्रे हृदये मृत्युर्दिवसैः सप्तभिर्भवेत् । यदि च्छायाद्वयं पश्येद्यमपाश्चै तदा व्रजेत् ॥२१५॥ अन्तस्थं मध्यगतमधिकृतप्राणिनाम यस्य, स चासौ णवश्च तेन गर्भितं, आग्नेयपुरं, कोणस्थरेफं, ज्वालाशतैराकुलं अनुस्वारसहितेः षड्भिः स्वरैः अकाराद्यैः पार्श्वतो वृतं, बहिः कोणेषु स्वस्तिकाङ्क स्वा इत्यक्षरस्य मध्यस्थितं आग्नेपुरमेव, तथा चतुःपार्श्वस्थो गुरुर्विसर्गान्तो यकारो यस्य तत्तथा, एवंभूतं यन्त्रं वायु-पुरेणावृतं कल्पयित्वा पादयोर्हदि शीर्ष सन्धिषु च न्यसेत् । यन्नं च स्थापनानुसारेण द्रष्टव्यं । शेषाः श्लोकाः स्पष्टाः ॥२०८-२१५ ॥ यन्त्रप्रयोगमुपसंहरन् विद्यया कालज्ञानमाह इति यन्त्रप्रयोगेण जानीयात्कालनिर्णयम् । यदि वो विद्यया विन्द्याद्वक्ष्यमाणप्रकारया ॥ २१६ ॥ स्पष्टः ॥२१६॥ विद्यामेव सप्तभिः श्लोकराह ॥७१८॥
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy