SearchBrowseAboutContactDonate
Page Preview
Page 757
Loading...
Download File
Download File
Page Text
________________ योगशाखम्। पञ्चमः प्रकाशः। ॥७०२॥ एकोनत्रिंशतं दिनानि वहति वायौ दशमे दिने मृत्युः। त्रिंशतं दिनानि वहति वायौ पञ्चमे दिने मृत्युः ॥११४॥ तथा-- एकत्रिंशदहचरे वायौ मृत्युर्दिनत्रये । द्वितीयदिवसे नाशो द्वात्रिंशदहवाहिनि ॥११५|| एकत्रिंशतं दिनानि वहति वायौ दिनत्रये मृत्युः। द्वात्रिंशतं दिनानि वहति वायौ दिनद्वये मृत्युः॥११५॥ इदानीं सूर्यनाडीचारमुपसंहरचन्द्रनाडीचारमाचष्टे-- त्रयस्त्रिंशदहचरे त्वेकाहेनापि पञ्चता। एवं यदीन्दुनाड्यां स्यात्तदा व्याध्यादिकं दिशेत् ॥११६॥ ___ त्रयविंशतं दिनानि वहति वायावेकेन दिनेन मृत्युः। इन्दनाड्यां यद्येवं वायुचारो भवति तदा न मृत्युभवति, किन्तु पूर्वोक्तविधिना व्याध्यादिकं स्यात् , आदिशब्दात्मुहन्नाशमहाभयस्वदेशविरहधनपुत्रादिनाशराजविनाशदुर्भिक्षादयः संगृह्यन्ते ॥११६॥ उपसंहरतिअध्यात्मं वायुमाश्रित्य प्रत्येकं सूर्यसोमयोः। एवमभ्यासयोगेन जानीयोत्कालनिर्णयम् ।११७॥ आत्मशब्देन शरीरमुच्यते, आत्मन्यधि अध्यात्म शरीरान्तर्गतं वायुमाश्रित्य सोमसूर्ययोरभ्यासयोगेन कालनिर्णयं कालावधारणं जानीयात् ॥११७॥ बाह्यं काललक्षणं जिज्ञापयिषुः प्रस्तौति " ॥७०२॥
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy