SearchBrowseAboutContactDonate
Page Preview
Page 743
Loading...
Download File
Download File
Page Text
________________ योग शास्त्रम् ६८८|| ECHO OXOXO CXCCE स्निग्धयोरञ्जनघनयोरिव च्छाया यस्य तत्तथा, सुष्ठु वृत्तं वर्तुलं, मध्ये बिन्दुसंकुलं, दुर्लक्ष्यं दुरवगमं, परितः पवनवेष्टितं, चञ्चलं वायव्यमण्डलम् ॥ ४५ ॥ अथाग्नेयम् - ऊर्ध्वज्वालाञ्चितं भीमं त्रिकोणं स्वस्तिकान्वितम् । स्फुलिङ्गपिंगं तद्वीजं ज्ञेयमाग्नेयमण्डलम्। ४६ । ऊर्ध्वगामिनीभिर्व्वालाभिश्चितं भीमं भयानकं, त्रिकोणं, कोणेषु स्वस्तिकाश्चितं, स्फुलिङ्गवत् पिङ्गं तदित्यनेनाग्नेः परामर्षः, बीजं च रेफः, एतदाग्नेयमण्डलम् ॥ ४६ ॥ अश्रद्दधानबोधार्थमाह- अभ्यासेन स्वसंवेद्यं स्यान्मण्डलचतुष्टयम् । क्रमेण संचरन्नत्र वायुर्ज्ञेयश्चतुर्विधः ॥४७॥ अभ्यासेन स्वसंवेद्यमेतत् मण्डलचतुष्टयं स्यात्, नापातमात्रेण, अत्र मण्डलचतुष्टये संचरन् वायुमण्डलभेदेन चतुर्विधो भवतीति क्रमेणाह ॥४७॥ नासिकारन्त्रमापूर्य पीतवर्णः शनैर्वहन् । कवोष्णोऽष्टाङ्गुलः स्वच्छो भवेद्वायुः पुरन्दरः॥४८॥ नासाविवरमापूर्य पीतवर्णः शनैर्मन्दं मन्दं वहन् किञ्चिदुष्णः अष्टाङ्गुलप्रमाणः स्वच्छः पार्थिवः पुरन्दरनामा वायुः ॥ ४८ ॥ तथा- धवलः शीतलोऽधस्तात्त्वरितत्वरितं वहन् । द्वादशांगुलमानश्च वायुर्वरुण उच्यते ॥४९॥ वर्णेन धवलः, स्पर्शेन शीतः, अधस्तादधः त्वरितत्वरितं वहन् द्वादशाङ्गुलप्रमाणो वायुर्वरुणनामा ॥४९॥ तथा 6 पश्चम प्रकाशः llll
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy