SearchBrowseAboutContactDonate
Page Preview
Page 742
Loading...
Download File
Download File
Page Text
________________ योगशाखम्। ॥६८७॥ प्रकाश। कुत्र मण्डले वायोर्गतिः? क संक्रमण ? क वा विश्रामः? का च नाडी वामादिरूपा ? इति जानीयात् तत्र हृदये स्थिरीकृते मनसि ॥ ४१ ॥ तत्र मण्डलान्याहु:मण्डलानि च चत्रारि नासिको विवरे विदुः। भौमवारुणवोयव्याग्नेयाख्यानि यथोत्तरम् ॥४२॥ ____ यथोत्तरमिति प्रथमं भौम पार्थिवं मण्डलं ततो वारुणमाप्य, ततो वायव्यं, ततोऽप्याग्नेयम् ॥४२॥ भौम मण्डलं व्याचष्टेपृथिवीबीजसंपूर्ण वज्रलाञ्छनसंयुतम् । चतुरस्त्रं द्रुतस्वर्णप्रभं स्योभौममण्डलम् ॥४३॥ पृथिवीबीजं क्षितिलक्षणं तेन मध्ये संपूर्ण, चतुरस्रं, कोणेषु वज्रलाञ्छनं, तप्तस्वर्णवर्ण, भौममण्डलं स्यात् ॥४३॥ अथ वारुणम्स्यादर्धचन्द्रसंस्थानं वारुणक्षरलाञ्छितम् । चन्द्राभममृतस्यन्दसान्द्रं वारुणमण्डलम् ॥४४॥ __अष्टमीचन्द्रसंस्थानं, वारुणाक्षरो वकारस्तेन लाञ्छितं, चन्द्राभं श्वेतवर्ण, अमृतस्य पीयूषस्य स्पन्दः क्षरणं तेन सान्द्र बहलं वारुणमण्डलम् ॥ ४४ ॥ अथ वायव्यम्स्निग्धाञ्जनघनच्छायं सुवृत्तं बिन्दुसंकुलम् । दुर्लक्ष्यं पवनाक्रान्तं चञ्चलं वायुमण्डलम् ॥४५॥ ॥६८७॥
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy