SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम् तृतीय प्रकाश ॥४२oll एतत्किं शिरसि स्थितं मम पितुः खण्डं सुधादीधिते-लालाट किमिदं विलोचनमिदं हस्तेऽस्य किं पन्नगः । इत्थं क्रौश्चरिपोः क्रमादुपगते दिग्वाससः शूलिनः, प्रश्ने वामकरोपरोधसुभग देव्याः स्मितं पातु वः ॥१॥ तथा-- उत्तिष्ठन्त्या रतान्ते भरमुरगपतौ पाणिनैकेन कृत्वा, धृत्वा चान्येन वासो विगलितकबरीभारमंसं वहन्त्याः । मृयस्तत्कालकान्तिद्विगुणितसुरतप्रीतिना शौरिणा वः, शय्यामालिङ्गय नीतं वपुरलसलसद्बाहु लक्ष्म्याः पुनातु ॥१॥ अनेन च सम्पूर्णों वन्दनाविधिरुपलक्षितः । यथा१तिम्नि निसीहिय तिनि य पयाहिणा तिनि चेव य पणामा । तिविहा पृआ य तहा अवत्थतियभावणं चेव ॥१॥ तिदिसिनिरक्खणविरई भूमीई पमजणं च तिक्खुत्तो । वण्णाइतियं मुद्दातियं च तिविहं च पणिहाणं ॥२॥ पुप्फामिसथुइभेआ तिविहा पूआ अवत्थतियगं तु । छउमत्थ-केवलितं सिद्धत्तं भुवणनाहस्स ॥३॥ वण्णाइतियं तु पुणो वण्णत्वालम्बणस्सरुवं तु । मणवयणकायजणिअंतिविहं पणिहाणमवि होइ ॥४॥ तथा(१) तिस्रो नैषेधिक्यस्तिस्त्रश्च प्रदक्षिणास्त्रयः एव च प्रणामाः। त्रिविधा पूजा च तथाऽवस्थात्रिकभावनं चैव ॥१२॥ त्रिदिनिरीक्षणविरतिभूमौ प्रमार्जनं च त्रिकृत्वः (त्रिः) । वर्णादित्रिक मुद्रात्रिकं च त्रिविधं च प्रणिधानम् ॥२॥ पुष्पामिषस्तुतिभेदाखिविधा पूजाऽवस्थात्रिककं तु । छद्मस्थ-केवलित्वं सिद्धत्वं भुवननाथस्य ॥३॥ वर्णादित्रिकं तु पुनर्वर्णालम्बनस्वरुपं तु । मनो-वचन-कायजनितं त्रिविधं प्रणिधानमपि भवति ॥४॥ ॥४२०॥
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy