SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ तृतीय योगशास्त्रम् प्रकाश ॥४१९॥ एवं भगवन्तमभ्यर्च्य पूजयित्वा ऐर्यापथिकीप्रतिक्रमणपूर्वकं शक्रस्तवादिभिर्दण्डकैश्चैत्यवन्दनं कृत्वा स्तवनैः स्तोत्रैरुत्तमैरुत्तमकविरचितैः स्तूयाद् गुणोत्कीर्तनं कुर्यात् । स्तोत्राणां चोत्तमत्वमिदमुक्तम्-यथापिण्डक्रियागुणगतैर्गम्भीरैविविधवर्णसंयुक्तैः। आशयविशुद्धिजनकैः संवेगपरायणैः पुण्यैः ॥१॥ पापनिवेदनगौंः प्रणिधानपुरस्सरैर्विचित्राथैः । अस्खलितादिगुणयुतैः स्तोत्रैश्च महामतिप्रथितैः ॥२॥ इति । न पुनरेवंविधैः एक ध्याननिमीलनान्मुकुलितं चक्षुद्वितीयं पुनः, पार्वत्या विपुले नितम्बफलके श्रृङ्गारभारालसम् । अन्यद्रविकृष्टचापमदनक्रोधानलोद्दीपितं, शम्भोभिन्नरसं समाधिसमये नेत्रत्रयं पातु वः ॥१॥ तथाधन्या केयं स्थिता ते शिरसि शशिकला किं नु नामैतदस्या, नामैवास्यास्तदेतत्परिचितमपि ते विस्मृतं कस्य हेतोः। नारों पृच्छामि नेन्दुं कथयतु विजया न प्रमाणं यदीन्दु-देव्या निह्नोतुमिच्छोरिति सुरसरितं शाठयमव्याद्विभोर्वः ॥१॥ तथा१पनमत पनयप्पकुपितगोलीचलणग्गलग्गपडिबिंबं । तससु नखतप्पनेसुं एकातसतनुथलं लुई ॥१॥ तथा(१) प्रणमत प्रणयप्रकुपितगौरीचरणाग्नलग्नप्रतिबिम्बम् । दशसु नखदर्पणेषु एकादशतनुधरं रुद्रम् ॥१॥ N४
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy