SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ योग शास्त्रम् mા TOMORESHKOKEKON श्रावकधर्मप्रासाद इति ॥ १२१ ॥ इदानीं महाश्रावकस्य दिनचर्यामाह ब्राह्मे मुहूर्त्त उत्तिष्ठेत् परमेष्ठिस्तुतिं पठन् । किधर्मा किंकुलश्चास्मि किंनतोऽस्मीति च स्मरन् ॥ १२२ ॥ पञ्चदशमुहूर्ता रजनी, तस्यां चतुर्दशो मुहूर्तो ब्राह्मस्तस्मिन्नुतिष्ठेत् निद्रां जह्यात्; परमे तिष्ठन्तीति परमेष्ठिनः पञ्चाईदादयस्तेषां स्तुतिं नमो अरिहन्ताणमित्यादिरूपामात्यन्तिकतद्बहुमानकार्य्यभूतां परममङ्गलार्थ वा पठनव्यक्तवर्णामिति शेषः । यदाह १ परमेद्विचिन्तणं माणसम्मि सेज्जागरण कायव्वं । सुत्ता विणयपवित्ती निवारिया होइ एवं तु ॥ १ ॥ अन्ये त्वविशेषेणैव नमस्कारपाठमा हुर्न सा काचिदवस्था यस्यां पञ्चनमस्कारस्यानधिकार इति मन्वानाः । न केवलं पठन्, को धर्मों यस्याऽसौ किधर्मा, किं कुलं यस्याऽसौ किकुलः, किं व्रतं यस्याऽसौ किंव्रतोऽस्मीत्यहमिति च स्मरनिदं भावतः स्मरणम् । उपलक्षणत्वात्के गुरवो ममेति द्रव्यतः, कुत्र ग्रामे नगरादौ वा वसामीति क्षेत्रतः, कः कालः प्रभातादिरिति कालतचेत्यादि स्मरन्, धर्मस्य जैनादेः, कुलस्येक्ष्वाकादेः, व्रतानामणुव्रतादीनां स्मरणे तद्विरुद्धपरिहारस्येपत्करत्वात् ॥ १२२ ॥ ततः - शुचिः पुष्पामिषस्तोत्रैर्देवमभ्यर्च्य वेश्मनि । प्रत्याख्यानं यथाशक्ति कृत्वा देवगृहं व्रजेत् ॥ १२३॥ (१) परमेष्ठिचिन्तनं मानसे शय्यागतेन कर्तव्यम् । सुप्त्वा विनयप्रवृतिर्निवारिता भवति एवं तु ॥ १ ॥ तृतीय प्रकाशः ॥४१५ ॥
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy