SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ पोग तृतीय शाखम् . प्रकाशा ॥४१४॥ | यः सद्बाह्यमनित्यं च क्षेत्रेषु न धनं वपेत् । कथं वराकश्चारित्रं दुश्चरं स समाचरेत् ?॥१२१॥ __ सदिति विद्यमानमसतो हि धनस्य कथं दानं भवेत् ? सदपि बाह्य शरीराबहिर्भुतं आन्तरस्य तु कस्य- चिदानं न शक्यं कर्तु, बाह्यमपि यदि नित्यमाकालस्थायि भवेत् तदा न दीयेतापि, इदं त्वनित्यं चौरजलज्वलनदायादपार्थिवादिहरणीय प्रयत्नगोपितमपि पुण्यक्षयेऽवश्यं विनश्यति, यदस्मद्गुरवः१अत्यं चोरा विलुपंति उद्दालंति य दाइया । राया वा संवरावेइ बला मोडीइ कत्थइ ॥१॥ जलणो वा विणासेइ पाणियं वा पलावए । अवदारेण निग्गच्छे वसणोपहयस्स वा ॥ २ ॥ भूमीसंगोवियं चेव हरन्ति वन्तरा सुरा । उज्झित्ता जाइ सव्वं पि मरन्तो वा परं भवं ॥३॥ अनित्यमपि स्वधन किश्चित्क्षेप्तुं शक्यते, न हि बहुतैलमस्तीति पर्वता अभ्यज्यन्त इत्युक्तम् क्षेत्रेष्विति, क्षेत्राणि येषूप्तं धनं शतसहस्त्रलक्षकोटिगुणं भवति । एवं विधायामपि सामग्र्यां यः स्वधनं न वपेत् स वराकः निःसत्त्वश्चारित्रं महासत्त्वसेवनीयमत एव दुश्चरं कथं समाचरेत् ?; धनमात्रलुब्धो निःसत्त्वः कथं सर्वसङ्गत्याग रूपं चारित्रं विदधीत ?, अनाराधितचारित्रश्च कथं सद्गति प्राप्नुयात् ? सर्वविरतिप्रतिपत्तिकलशारोपणफलो हि (१) अर्थ चौरा विलुम्पन्ति, उद्दालयन्ति च दायादाः। राजा वा संवारयति बलात् मृद्यते कुत्रापि ॥१॥ ज्वलनो वा विनाशयति पानीयं वा प्लावयति। अपद्वारेण निर्गच्छेत् व्यसनोपहतस्य वा ॥ २ ॥ भूमीसंगोपितमेव हरन्ति व्यन्तराः सुराः । उज्झित्वा याति सर्वमपि म्रियमाणो वा परं भवम् ॥३॥ 11४१४॥
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy