SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ धोम तृतीय प्रकाशा शास्त्रम् ॥३९ ॥ दजननी गवादीनां च वधवन्धादिहेतुः शकटजीविका प्रकीर्तिता ॥१०४॥ अथ भाटकजीविकामाहशकटोक्षलुलायोष्ट्रखराश्वतरवाजिनाम् । भारस्य वाहनाद् वृत्तिर्भवेद्धाटकजीविका ॥१०५॥ शकटशब्द उक्तार्थः उक्षाणो बलीवर्दाः लुलाया महिषाः उष्ट्राः करभाः खरा रासभा, अश्वतरा वेसराः, वाजिनोऽश्वाः एतेषां भाटकनिमित्तं यद्भारवाहनं, तस्माद् या वृत्तिः सा भाटकजीविका ॥१०५।। अथ स्फोटजीविकामाहसरःकपादिखननशिलाकुट्टनकर्मभिः । पृथिव्यारम्भसम्भूतैर्जीवनं स्फोटजीविका ॥१६॥ सरसः कूपस्य आदिग्रहणाद वापोदीर्घिकादेः खननमोड्डुकर्म, हलादिना वा क्षेत्रादे विदारणं, शिलाकुट्टनकर्म पाषाणघटनकर्मः एतैः पृथिव्याः पृथिवीकायस्य य आरम्भ उपमर्दस्तस्य सम्भूतं सम्भवो येभ्यस्तैः पृथिव्यारम्भसम्भूतैः, उपलक्षणं चैतद् भूमिखनने वनस्पतित्रसादिजन्तुघातानाम् । एभिर्जीवनं स्फोटजीविका, स्फोट पृथिव्या विदारणं तेन जीविका स्फोटजीविका ॥१०६॥ अथ दन्तवाणिज्यमाहदन्तकेशनखास्थित्वग्रोम्णो ग्रहणमाकरे । त्रसाङ्गस्य वणिज्यार्थं दन्तवाणिज्यमुच्यते ॥१०७॥ दन्ता हस्तिनां उपलक्षणत्वादन्येऽपि त्रसजीवावयवा दन्तग्रहणेन गृह्यन्ते । तदेवाह-केशाश्चमर्यादीनां, नखा ॥२२॥
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy