SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम् ॥३९१ ॥ एवं च ये येऽग्निविराधनारूपा आरम्भास्ते तेऽङ्गारकर्मण्यन्तर्भवन्ति; प्रपश्चाथं तु भेद उक्तः । भ्राष्ट्रकरणं, भ्रष्ट्र जीवित्यर्थः । तथा कुम्भकारिता कुम्भकरणपाचनविक्रयनिमित्ता जीविका । तथा अयो लोहं तस्य करणघटनादिना जीविका । स्वर्णकारिता सुवर्णरूप्ययोर्गालनघटनादिना जीविका । कुम्भायः स्वर्णानि करोतीत्येवं शीलस्तस्य भावस्तत्ता । तथा ठठारत्वं शुल्वनागबङ्गकांस्यपित्तलादीनां करणघटनादिना जीविका, इष्टकापाकः इष्टकापाकवेलुकादीनां पाकस्तेन जीविका । इत्येवंप्रकारा अङ्गारजीविका ॥ १०२ ॥ अथ वनजीविकामाह - छिन्नाच्छिन्नवनपत्र प्रसूनफलविक्रयः । कणानां दलनात् पेषाद् वृत्तिश्च वनजीविका ॥ १०३ ॥ छिन्नस्य द्विधाकृतस्य अच्छिन्नस्य च वनस्य वनस्पतिसमूहस्य पत्राणां प्रसूनानां फलानां च छिन्नाच्छिन्नानां विक्रयो वनजीविकेत्युत्तरेण सम्बन्धः । कणानां च घरट्टादिना दलनाद् द्वैधीकरणात्, शिलाशिलापुत्रकादिना पेषात् चूर्णीकरणाद्या वृत्तिः सा वनजीविका । वनजीविका च वनस्पतिकायादिघातसम्भवा ॥ १०३ ॥ अथ शकटजीविकामाह शकटानां तदङ्गानां घटनं खेटनं तथा । विक्रयश्चेति शकटजीविका परिकीर्तिता ॥ १०४ ॥ शकटानां चतुष्पदवाह्यानां वाहनानां तदङ्गानां शकटाङ्गानां चक्रादीनां घटनं स्वयं परेण वा निष्पादनं, खेटनं वाहनं, तच्च शकटानामेव सम्भवति स्वयं परेण वा विक्रयश्च शकटानां तदङ्गानां च, इति सकलभूतोपम तृतीय प्रकाश ॥३९२॥
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy