SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ पोगशास्त्रम् द्वितीय प्रकाशः भीरोराकुलचित्तस्य दुःस्थितस्य परस्त्रियाम् । रतिर्न युज्यते कर्तुमुपशूनं पशोरिव ॥१५॥ परस्त्रियां रतिः प्रीतिः, कर्तुं न युज्यते, भीरोः पतिराजादिभीतस्य, अत एवाकुलचित्तस्य अनेन दृष्टोऽनेन ज्ञातोऽहमिति उपसर्पतीति व्याकुलचित्तस्य, दुःस्थितस्य खण्डदेवकुलादौ शय्यासनादिरहितस्य, कस्येव, पशोरिव वध्यस्य, उपशूनं शूनासमीपे ॥९५।। तस्मात्प्राणसन्देहजननं परमं वैरकारणम् । लोकद्वयविरुद्धं च परस्त्रीगमनं त्यजेत् ॥१६॥ परस्त्रियां गमनं सम्भोगस्तत्त्यजेत्, प्राणानां जीवितव्यस्य सन्देहो नाशशङ्का, तं जनयतीति प्राणसन्देहजननं परस्त्रीषु प्रसक्तस्य हि प्रायेण परैः प्राणाः प्रणाश्यन्ते कदाचिन्नेति प्राणसन्देहः, परमं प्रकृष्टं वैरस्य विरोधस्य कारणम् यदाह-" बद्धमूलस्य मूलं हि महद्वैरतरोः स्त्रिय" इति । लोकद्वयमिहलोकपरलोकलक्षणं, तस्य विरुद्ध प्राणसन्देहजननत्वारिकारणत्वाल्लोकद्वयविरुद्धत्वादिति परस्त्रीगमनत्यागे हेतुत्रयं विशेषणद्वारेण ॥९६॥ लोकद्वयविरुद्धं चेति विशेषणमस्फुटं स्फुटयतिसर्वस्वहरणं बन्धं शरीरावयवच्छिदाम् । मृतश्च नरकं घोरं लभते पारदारिकः ॥१७॥ सर्वधनापहारं, रज्ज्वादिना बन्धं, शरीरावयवः पुंध्वजादिस्तस्य च्छिदां छेदं लभत इतीहलोकविरोधः। मृतश्च नरकं घोरं लभते इति परलोकविरोधः। परदारान् गच्छतीति पारदारिकः ॥९॥ उपपत्तिपूर्व परखीगमनप्रतिषेधमाह URL
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy