SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ योगशाखम् द्वितीय মকায়: ॥१३५॥ १दुविहतिहेण पढमो दुविहं दुविहेण बीयओ होइ। दुविहं एगविहेण एगविहं चेव तिविहेण ॥१॥ एगविहं दुविहेणं एगेगविहेण छठओ होइत्ति । एते च भङ्गाः करणत्रिकेण योगत्रिकेण च विशेष्यमाणा एकोनपश्चाशद्भवन्ति । तथाहिहिंसां न करोति मनसा १ वाचा २ कायेन ३ मनसा वाचा ४ मनसा कायेन ५ वाचा कायेन वा ६ मनसा वाचा कायेन च ७ एते करणेन सप्त भङ्गाः । एवं कारणेन सप्त । अनुमत्या सप्त । तथा हिंसां न करोति न कारयति च मनसा १ वाचा २ कायेन ३ मनसा वाचा ४ मनसा कायेन ५ वाचा कायेन वा ६ मनसा वाचा कायेन च ७। एते करणकारणाभ्यां | सप्त भङ्गाः। एवं करणानुमतिभ्यां सप्त । कारणानुमतिभ्यामपि सप्त । करणकारणानुमतिभिरपि सप्त । एवं सर्वे मीलिता एकोनपश्चाशद्भवन्ति । एते च त्रिकालविषयत्वात् प्रत्याख्यानस्य कालत्रयेण गुणिताः सप्तचत्वारिंशदधिकं शतं भवन्ति । यदाह २सेयालं भंगसय पच्चक्खाणम्मि जस्स उवलद्रं । सो खलु पच्चक्खाणे कुसलो सेसा अकुसलाओ ॥१॥ (१) द्विविधत्रिविधेन प्रथमो द्विविधं द्विविधेन द्वितीयो भवति । द्विविधं एकविधेन एकविधं चैव त्रिविधेन । एकविधं द्विविधेन एककविधेन षष्ठको भवतीति । (२) सप्तचत्वारिंशत्भङ्गशतं प्रत्याख्याने यस्य उपलब्धम् । स खलु प्रत्याख्याने कुशलः शेषा अकुशलाः ॥ ॥१३५४
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy