SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम् द्वितीय प्रकाशा iા प्रतिमाः प्रतिपद्यते पुत्रादिसन्ततिपालनाय यो वा विशेष स्वयंभूरमणादिगतं मत्स्यादिमांसं स्थूलहिंसादिकं वा कचिदवस्थाविशेषे प्रत्याख्याति स एव त्रिविध त्रिविधेनेति करोति । इत्यल्पविषयत्वानोच्यते । बाहुल्येन तु द्विविधं त्रिविधेनेति। द्विविधत्रिविध आदिर्यस्य द्विविधत्रिविधादेर्भङ्गजालस्य तेन ॥ द्विविधं द्विविधेनेति द्वितीयो भङ्गः द्विविधमिति स्थूलहिंसां न करोति न कारयति द्विविधेनेति मनसा वचसा यद्वा मनसा कायेन यद्वा वाचा कायेनेति । तत्र यदा मनसा वाचा न करोति न कारयति तदा मनसा अभिसन्धिरहित एव वाचापि हिंसकमब्रुवन्नेव कायेनैव दुश्चेष्टितादिना असंजिवत्करोति । यदा तु मनसा कायेन न करोति न कारयति तदा मनसाभिसन्धिरहित एव कायेन दुश्चेष्टितादि परिहरन्नेवानाभोगाद्वाचैव हन्मि घातयामि वेति ब्रूते यदा तु वाचा कायेन न करोति न कारयति तदा मनसैवाभिसन्धिमधिकृत्य करोति कारयति च । अनुमतिस्तु त्रिभिरपि सर्वत्रवास्ति । एवं शेषविकल्पा अपि भावनीयाः। द्विविधमेकविधेनेति तृतीयः द्विविधं करण कारणं च एकविधेन मनसा यद्वा कायेन । एकविधं त्रिविधेनेति चतुर्थः एकविध करणं यद्वा कारण मनसा वाचा कायेन च । एकविधं द्विविधेनेति पञ्चमः एकविधं करण यद्वा कारण द्विविधेन मनसा वाचा यद्वा मनसा कायेन यद्वा वाचा कायेन । एकविधमेकविधेनेति षष्ठः एकविधं करण यद्वा कारण एकविधेन मनसा यद्वा वाचा यद्वा कायेन । यदाह ॥१३॥
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy