SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ ३५४ प्रथमे काण्डे - र्ययात् । अर्थस्य हि ज्ञानाधीनः प्रकाशः जडत्वात् न त्व (स्व) यम् ततो यदि स्वप्रकाशनं तथासंवेदनं हेत्वर्थस्तदाऽसिद्धः (द्धिः) तदर्थस्य । अथ संवेदन सामान्यं स्वपरसंविदो हेतुः तस्य प्रतिबन्धो वाच्यः यतः साधारणं सत् तदर्थ ज्ञानयोः ज्ञानात्मनामेव साधयति । अथापि 'संवेदन शब्दो हेतुः सोऽपि प्रतिबन्धाभावादेव न साध्यं साधयति । किञ्च तदा ( था ) संवेदनं नीलादीनामभावसा ५ धनत्वेनोपन्यस्यते, उत ज्ञानात्मकताप्रसाधकत्वेन ? यद्याद्यः पक्षः स न युक्तः, हेतोर्विरुद्धत्वप्रसक्तेः उपलब्धेः संत्तया व्याप्तत्वात् नहास दुपलभ्यते तथाभ्युपगमे वा शप्तावप्य सत्त्वप्रसक्तिः । न चासतोऽनुपलम्भे द्विचन्द्रादेरनुपलब्धिप्रसक्तिः तस्यापि संत्तायोगित्वप्रतिपादनात् । यदि वा संवेदनं सति ज्ञाने असति च चन्द्रद्वये उपलब्धमित्यनैकान्तिकमस्तु । अथ ज्ञानात्मकता तथासंवेदनात् साध्यते तत्रापि वक्तव्यम् - किं ज्ञानात्मकत्वेन नीलादेः संवेदनम्, उन व्यतिरिक्ततया ? प्रथमपक्षे ज्ञानात्मकं १० संवेदनं नीलादेहेतुः स चाध्यक्षसिद्धोऽभ्युपगन्तव्य इति नापरं साध्यमस्ति यदर्थ हेतुः स्यात् । द्वितीयपक्षेऽपि हेतुर्विरुद्धः भिन्नरूपं हि संवेदनं भेदमेव साधयति नैकत्वमन्यथा भेदोपर तिप्रसकेः तदयमपि हेतुर्न युक्तः । इति न कुतश्चित् विज्ञप्तिमात्रसिद्धिः । 1 [ उत्तरपक्षः - विज्ञानवादिभिर्योगाचारः विज्ञप्तिमात्रस्य स्थापनम् ] अत्र प्रतिविदधति यत् तावदुक्तम् 'कथं प्रत्यक्षप्रतीतवपुषां नीलादीनामभावः साधयितुं १५ शक्यते' इति, तंत्र प्रत्यक्षेणार्थपरिच्छेदाऽसंभवात् कथं नीलादीनां प्रत्यक्षपरिच्छेद्यता ? तथाहिप्रत्यक्षमर्थं तुल्यकालं वा प्रकाशयति भिन्नकालं वा ? तुल्यकालमपि प्रत्यक्षम् परोक्षं वा ? यदि प्रत्यक्षं ज्ञानमर्थात्मानं तुल्यकालमवभासयति तथासति यदेव ज्ञानमवमासतेऽध्यक्षतया नंदे (दे) व नीलादिस्वरूपमपि परिस्फुटमाभाति स्वरूपनिष्ठयोर्द्वयोरपि प्रतिभासनात् कथं ग्राह्यग्राहकभावः ? तथाहि - ज्ञानं नीलाकार विविक्तं स्वरूप निमग्नं हृदि संन्धीयते अर्थस्तु तद्रूपपरिहारे ( रेण ) बहिः २० स्फुटवपुः प्रतिभाति । न च दर्शनप्रतिभासकाले नीलं स्वरूपनिष्टं प्रतिभातीति तद्राहां युक्तम् ज्ञानस्यापि नीलावभासकाले प्रतिभासनात् तद्ब्राह्यतापत्तेः । न च दर्शनं वहिरर्थसंविदं प्रति ग्रहणक्रियामुपरचयतीति तद् ग्राहकम् नीलं तु तत्प्रतिबद्ध प्रकाशतया ग्राह्यमिति वक्तव्यम्, नील-दर्शनव्यतिरिक्ताया ग्रहणक्रियाया अभावात् यतो न तथाभूततद्वयव्यतिरिक्ता ग्रहणक्रिया प्रतिभाति । न च तामन्तरेण कर्तृ - कर्म्मते नील-बोधयोर्युक्ते अतिप्रसङ्गात् । भयतु वा तद्यतिरिक्ताऽपरा क्रिया तथा२५ पि परोक्षायां तस्यां नीलादेः कर्मसम् बन्धोतस्य ( कर्मत्वं बोधस्य ) च कर्तृत्वमतिप्रसङ्गतोऽयुक्तमिति प्रतिभासना ( समान) तनुः अभ्युपगन्तव्या तथाभ्युपगमेऽपि च " किंचित् (किं) सा स्वरूपेण प्रतिभाति, उत तड्राह्यतयेति वक्तव्यम् । प्रथमपक्षे क्रिया स्वरूप निमग्ना प्रतिभातीति नीलम् बोधः ग्रहणक्रिया चेति त्रितयं स्वतन्त्रमाभातीति न कर्म-कर्तृ - क्रियाव्यवहतिर्युक्तिमती । न च परस्परस्वरूप विविक्तनिर्भासादेव कर्म-कर्तृ-क्रियाव्यवहारः, स्तम्भादेरपि तथापरस्परव्यवहारप्रसक्तेः । अथ ग्राह्यतया ३० क्रिया प्रतिभाति तदा तस्या अप्यपरक्रिया विषयीक्रियमाणायाः कर्मता तत्क्रियाया अप्यपरक्रियान्तरविषयीक्रियमाणायाः कर्मतेति निरवधिः क्रियापरम्परा प्रसज्येत । अथा (थ) क्रियान्तरमन्तरेण ग्रहणक्रियाया ग्राह्यता, नन्वेवं नीलादेरपि ग्रहणक्रियाव्यतिरेकेण स्वप्रकाशवपुषः ग्राह्यता समस्तु तथा च नीलादीनां स्वरूपमेव प्रकाशात्मकमिति विज्ञप्तिमात्रमेव सर्व भवेत् । अपि च, बोधककाले (बोधकाले ) यदि संवेदनक्रिया विद्यमाना तदा समानकालतया प्रतिभासनात् कथं ज्ञानस्य संवित्क्रिया २२ । १ प्रकारः प्रकाशः वा० वा० । २-त्वान्नन्वय ततो आ० । त्वान्नत्वायं ततो हा०।- त्वान्नत्वाय ततो वि० । ३-सिस तद-वा० बा० । ४- सामां खप-भां० मां० । ५- शब्दे हे भां० मां० । ६ न साधयति भ० मां० । ७ सत्ताया वा० बा० आ० । ८- सता नुवा० बा० विना । ९ सत्वायो - वा० वा० भ० मां० । १० पृ० ३४९ पं० २५ । ११ तन्न प्रवा० बा० आ० हा० वि० विना १२-त्यक्षज्ञा - वा० बा० भ० मां० विना । १३ यदेव हा० वि० । १४ - नमेव भा-वा० वा० विना । १५ तथैव वा० वा० । १६ संधेयआ० विना । १७ - दं बहिरर्थग्रहणक्रिया - वा० बा० । १८- क्ता क्रिया आ०। १९-सम्बन्धो तस्य भां० मां० आ० हा० | २० - स्य कर्तृ - वा० वा० । २१ - ङ्गतो यु-भ० मां०हा०वि० । २२ - ति भास तनुः अ-वा० बा० वि० विना । २३ किचि सो स्व- वा० वा० । २४ त्रितीयं वा० वा० विना । २५ अथार्थ क्रिया - आ० । अर्थात्रि - भां० मां० ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy