SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ नयमीमांसा। नियमो युक्तः नील-पीतयोरपि तथाभावप्रसङ्गात् ततः सुखादिरूपा न बुद्धिः ??] नापि नीलोपलम्भकाले प्रतिभाति केवलस्य नीलस्यैव तदा प्रतिभासात्(सात् पश्चात्) त्वर्थप्रत्यक्षता अन्यथानुपपत्त्या गम्यते । ___अन्ये नु(तु) मन्यन्ते पश्चादपि प्रत्यक्षते एव बुद्धिः प्रतीयते न पुनः सा सर्वदा पैरोक्षेत्यसिद्ध एव सहोपलम्भनियमः क्रमेण नील-तद्धियोः प्रतिभासात् अथा(थ) नीलप्रतिभासकाले तद्बुद्धिः५ प्रत्यक्षा भवेत् तथापि सहोपलम्भश्च भवेत् भेदश्चेति नात्र विरोधः तथापि रूपाऽऽलोकयोर्भिन्नयोरपि सहोत्प(प)लम्भात् कथं सहोपलम्भा(म्भ)नियमस्य भेदेन सह विरोधसिद्धिः? कार्यकारणभावप्रतिबन्धतो ग्राह्यलक्षणत्याच रूपाऽऽलोकयोभैदेऽपि सहोपलम्भः नील-तद्धियोरपि प्रतिबन्धादेव सहोपलम्भसंभवात् । न च तयोस्तुल्यकालत्वात् प्रतिबन्ध एव न संभवतीति वाच्यम् एकसामग्यधीनतालक्षणस्य प्रतिवन्धस्य प्रत्यक्षनील-तद्वद्ध्योः संभवात् । ततः सहोप-१० लम्भेऽपि नाभेदो भवेत् । न चाभेदेन व्याप्तः सहोपलम्भः सिद्धः येन ततस्तत्सिद्धिः स्यात् । अथ द्विचन्द्रादावभेदे सहोपलम्भदर्शनाद् अन्यत्रापि ततोऽभेदः, नैतत् सारम् ; दृष्टान्तमात्रात् साध्य सिद्धरयोगात् अन्यथा हेतुवैयर्थ्यप्रसक्तेः । न चानेदव्याप्तः कश्चिद्धेतुरस्ति । न च दृष्टान्तोऽपि सिद्धः चन्द्रद्वयादेरपि ज्ञानाद् भिन्नत्वेन प्रतिपादिनत्वात् । अनैकान्तिकश्चायं हेतुः संवैज्ञज्ञानस्य पृथग्जनचित्तस्य सहोपलम्भेऽपि भेदाभ्युपगमात् । न च सर्वज्ञज्ञानसंवेदनं विनापि पृथग्जन-१५ चित्तसंवेदनसंभवात् न तत्र सहोपलम्भनियम इति वाच्यम् यतः परदृशं विनापि तद्राह्यं नीलादि पृथग्नरान्तराण्युपलम्भत(लभन्त) इति तदर्शनान् तदपि भिन्नमस्तु । अपि च, 'सह शिष्येण पण्डितः' इति 'सह शब्दो भेद एवोपलब्धः ततो हेतुर्विरुद्धो भवेत् सहभावविवक्षायां भेदेन व्याप्तत्वात् । अथ 'सह'शब्दो नैव सहभावार्थवृत्तिः किन्तु एकार्थवृत्तिः ततः 'एकोपलम्भात' इति हेतर्विवक्षितः न चासौ विरुद्धः, असदेनतः एकोपलम्भस्यासिद्धत्वात् तदसिद्धत्वं च नील-२० तद्धियो टोपलम्भात । तथाहि-वहिर्गतत्वेन देश-कालादिभिन्नतया ग्राह्यतया नीलं मिनमाभाति अन्तर्गतत्वेन सुखादिरूपतया ग्राहकरूपापन्ना वुद्धिगभातीति न तयोरेकोपलम्भः सिद्धः।। किञ्च, एकस्यैवोपलम्भो ज्ञानस्य, अर्थस्य वा? यदि ज्ञानस्यैव तदा हेतुरसिद्धः नहि परं प्रति ज्ञानस्यैवोपलब्धिः सिद्धा अर्थस्याप्युपलब्धेः। न च तस्याभावात् अनुपलब्धिः इतरेतराश्रयदोपात् । तथाहि-अर्थाभावे सिद्धे ज्ञानस्यैवैकस्योपलम्भः सिद्धो भवति तदुपलम्भसिद्धौ चार्था-२५ भाव इतीतरेतराश्रयत्वम् । न चैकस्य ज्ञानस्योपलम्भ एवेति हेत्वों युक्तः नीलादेरुपलम्भानिराकरणात् । एवं च कथमर्थाभावसिद्धिरित्यनकान्तिक एव हेतुः। अथ अर्थस्यैवैकस्योपलम्भः एवमपि नार्थाभावसिद्धिः न च 'तथासंवेदनान्' इत्ययमपि हेतुः, असिद्धत्वात् । तथाहियादृग्भूतं ज्ञाने संवेदन(नं न) तारम् अर्थ स्वप्रकाशरूपत्वा(त्वात्) ज्ञानस्य इतरस्य च तद्विप १“ज्ञाते त्वर्थेऽनुमानादवगच्छति बुद्धिम्" इति मीमांसकाभिमतम् अष्टस• पृ० ५७ पं०७। २ अन्येन म-वा. वा० । अन्येऽम-आ०। ३-त व भां• मां०। ४ परोक्षत्यसि-भां० मां० हा० वि० । परोक्षस्य सि-आ०। ५-तद्धियो प्र-भां० ।-तद्धियोग प्र-मां०। ६-काले न बुद्धि प्र-वा० वा. भां. मां० विना । ७-क्षाभावात् वा० वा. विना । ८-म्भश्चाभ-वा. वा० । ९ सहोपलम्भान्नि-वा. बा. विना । १० सर्वज्ञान-वा. बा.। ११-त्तस-वा. वा. विना। "तथा सर्वज्ञज्ञानस्य तज्ज्ञेयस्य चेतरजनचित्तस्य सहोपलम्भनियमेऽपि भेदाभ्युपगमादनेकान्तः"-प्रमेयक पृ. २१ प्र. पं० १५। अत्र पृथग्जनव्याख्या"एको पुव्वे चरित्वान मेथुनं यो निसेवति । यानं भंतं व तं लोके हीनं आहु पुथुज्जनम्" ॥ ८१६ ॥ -सुत्तनिपाते पृ० १२४ ॥ "द्वे पुथुजना [अंधो च कल्याणको च] वुत्ता"-मज्झिमनिकाये पृ० २३१ अं० २। “अनरियो तु पुथुज्जनो" ॥ ३५॥ "नीचे पुथुजनो" ॥ ८४ ॥-अभिधानप्प० पृ. ६४ तथा १३८ । १२ न स-भां. मां। १३-नरान्तरातराण्यु-आ० । १४-ण पिण्डि-वा० बा०। १५-शब्दे भेद एवोपलब्धिस्ततो वा. बा। १६ एकेप-भां० मा०। १७-द्धौ व्यर्था-वा. बा. विना। १८-लम्भनि-वा० बा• विना। १९ तातहभां० मां०। २० अर्थो स्व-वा० बा० विना ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy