SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ ३४८ प्रथमे काण्डेन निवृत्तः ? नहि तद्भावेऽपि पररूपेणायं निवर्त्तते स्वरूपं च तदेवास्य प्रागपि कथं न निवृत्तिः? हेतवश्चानुपकार्यापेक्षायां नियुञ्जानाः स्वकार्यमात्मनोऽस्थानपक्षपातित्वमाविष्कुर्युः, न च भवतामप्यकिञ्चित्करमपि मुद्रादिकमपेक्ष्य कथं प्रवाहो निवर्त्तते इति वाच्यम् यतो न विशरारुक्षणव्यतिरेको(क्य)परः प्रवाहो विद्यते यो निवृत्तावकिञ्चित्करं मुद्गरादिकमपेक्षते किन्तु परस्परविविक्ताः ५पूर्वापरक्षणा एव, ते च स्वरसत एव 'विरु(निरु)ध्यन्त इति न क्वचिदकिञ्चित्करापेक्षानिवृत्तिः अतो मुद्रादिरहिता सामग्री अविभक्तं कार्य सम्पादयन्ती तत्सन्निधाने विभक्तं कार्यान्तरं जनयति न तु मुद्रादयः कारणसामध्ये खण्डयन्ति, विकल्पत्रयस्यात्रापि पूादितस्य प्रसङ्गात् । अतो यदुक्तम् "स्वभावोऽपि स तस्येत्थं येनापेक्ष (?) निवर्तते । (?) विरोधिनं यथाऽन्येषां प्रवाहा मुद्रादिकम्" ॥ [ ] इति, तदपि प्रतिक्षिप्तं द्रष्टव्यम् । अथायं विकल्पः सर्वत्रगत्वादसारः (?) तथाहि-उत्पादेऽप्येवं शक्यते एव वक्तुं स्वभावतो ह्युत्पत्तिस्वभावस्य न किञ्चिदुत्पत्तिहेतुभिस्तत्स्वभावतयैव स्वयमुत्पा. दात्, अनुत्पत्तिखभावस्य तु स्वभावतो व्यर्था उत्पत्तिहेतवः तद्भावान्यथात्वस्य कर्तुमशक्यत्वा. दिति, नैतत् सारम्; यतो यद्युत्पत्तिरभूत्वा भवनलक्षणैव-अन्यथा तदयोगात्-स्वभावो यस्य १५स तथोच्यते तदा सिद्धसाधनमेव, यस्य ह्यभूत्वा भ(?)वत्सम्पन्नस्तत्रोत्पादहेतूनां व्यापाराभी वस्याभीष्टत्वात् सतो निवर्त्तयितुमशक्यत्वात् कार्य-कारणयोः सहभावेनौनिवृत्तः, अथोत्पत्ती स्वभाव आभिमुख्यलक्षणो यस्य सन्निहितसर्वकारणकलापानन्तरभाविन इत्यभिधातुमभिधेयं तदा कथमस्योत्पत्तिहेतूनां वैयर्थ्यम् ? नहि तभूतकारणवशात् तथाव्यपदेशहेतोय॑र्थता युक्ता । द्वितीयो विकल्पः सोऽप्यनुपपन्नः यतोऽनुत्पत्तिर्भावप्रतिषेधमात्र स्वभावः सर्वसामर्थ्यविरह२० लक्षणस्याभावस्य तत्र चानभ्युपगमाद्धेतुव्यापारस्य सिद्धसाध्यतैव, न झुत्पत्तिहेतवोऽभावं भावी. कुर्वन्ति, भावेष्वपि परिणामस्तावदयं न सम्भवति मुत(किमुत) नीरूपेऽभावे? नत्वे(न्वे)वं कथमसदुत्पद्यत इत्युच्यते ? कारणानन्तरं यः सद्भावः स प्रागसन्नित्ययमत्रार्थः न पुनरभावो भावत्वमापद्यत इति न कश्चिद्दोपः अन्यथानुपत्तावनन्तरभावाभावे धो यस्यासन्निहितकारणस्य च स एवमभीष्टस्तदापि तत्राऽसत्त्वादेव कारणानां व्यापारो न भवतीति न काचित् क्षतिः, लोके चोत्पत्ति२५धैर्माऽनागत एवोच्यते, न च तस्य शशविपाणस्येव तीक्ष्णतादिगोचराणामिव भावाश्रयाणां विकल्पानां सम्भवः, न च यदि निर्हेतुको भावस्य विनाशः उत्पादोऽपि तथैवास्तु भावभाव(?)धर्मत्वाविशेषात् यतो न विनाशो नामाऽन्य एव कश्चिदुदयापवर्गिणो भावात् भावश्च स्वहेतोरेव तथाभूत उत्पन्नो न कश्चिद्धर्मोऽस्या(?)निमित्तः केवलं तमस्य स्वभावं पश्यन्नपि मन्दबुद्धिर्न विवेचयति दर्शनपाटवाऽभावात् यदा तु विसदृशः(श)कपालादिविधुरप्रत्ययोपनिपाताद् उत्पद्यते तदा भ्रान्तिकारण३० विगमात् प्रत्यक्षनिबन्धनो निश्चय उत्पद्यते, अनुमानतो भावानां सुविर्दुषां प्रागपि भवत्येव, यथा विषस्वरूपदर्शनेऽप्यतत्कारिपदार्थसाधर्म्यविप्रलँब्धो नै मारणशक्तिं नि(निश्चि)नोति प्राक् पश्चात् तु विकारदर्शनात् तन्निश्चयः, न च शक्तिमतः शक्तयो भेदमनुभवन्तीति प्रतिपादितं सौगतः। जातस्य च स्तभावस्य विनश्वरत्वेऽन्यानपेक्षणान्निर्हेतुको विनाश उच्यते इति स्थितमेतत् यथोक्तप्रकारेणानु १-वास्या प्रा-आ० हा० वि०। २-माविकु-वा. बा०। ३-द्यते माया निवृ-आ० ।-द्यते मोया निवृ-हा० वि०। ४ विरूध्यत इ-मां० । विरुध्यत इ-भां०। ५-रादिना र-वा० बा० विना। ६-रहित सा-आ०। ७-धाने पिभ-वा० बा० विना । ८ ननु मु-भां० मा. आ. हा०वि०।९। तथा-वा. बा. विना। १०-दऽवसारः वा. बा०। ११ तवयो-भां० मां०। १२-त्वा भावत्स-वा० बा०। १३-भावास्या भीष्ट-भां० मा० ।-भावास्याभीष्ट-आ० ।-भावस्या अभीष्ट-हा० वि० । १४-स्यारवाभी-वा. बा०। १५-ना वृ-वा० बा०। १६-स्य सनिहि-भां० मां०। १७-मभिधेयः त-भां० मा० । १८-थानत-वा० बा०। १९-पपन्नाव-वा० बा०। २० धर्मा यस्या-भां० मा०। २१-धर्म्यतानग ए-आ० ।ध गत ए-हा० वि०। २२ भावतावध-वा० बा०। २३ कश्चिद्धर्मा स्या-हा० वि०। २४-दुषो प्राआ०।-दुषां प्र-वा० बा०। २५ यवां वि-आ० । यवा वि-हा. वि.। २६-विषय-वा. बा. विना। २७-लब्धौ न वा. बा. भां० मा० विना। २८ न कारण-वा. बा. विना। २९-शक्ति नितोति भां०।शक्तिं मिनोति वि० सं०।-शक्तिं नोति वा० बा।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy