SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ नयमीमांसा ने तस्य किञ्चिद् भवति, न भवत्येव केवलम् , अन्यथा कस्यचिद् विधाने न भावो निवर्तितः स्यात्" [ ] इत्यप्रस्तुताभिधानं भवेत् । यदपि ‘कृतकोऽपि विनाशो नित्यः, अकृतकोऽपि प्रागभावो विनाशी' इत्यभिधानम् , तदपि न न्यायानुगतम् । अथ भावानां कृतकाऽकृतकानां ध्वंसिता-स्थैर्यलक्षणो धर्म एकान्तिकः, न च भाव. धर्मोऽभावेष्वध्यारोपयितुंयुक्तः। कुतः पुनरयमेकान्तिको भावधर्म इत्यवसितम्? अन्यथा भावस्या- ५ नुपलम्भादिति नुपलम्भोऽयं भवन्नप्यात्मादेः सत्ताया अनिवर्तकोऽन्यत्र कथमन्यथाभावं निवर्त्तयेत् ? नै चात्मनोऽनुमानेनोपलम्भादिति वाच्यम् , यतोऽनुमानेऽप्यनुपलम्भ एव हेतोः विप. क्षवृत्तिं कथं निवर्त्तयति ? अथ कृतकाकृतकानां पदार्थानां हेतुकृतविनाशेतरस्वभावदर्शनाव्यभिचारः यद्येवं यस्यैव घटादेः कृतकस्य विनाशकारणवशाद् विनाशो दृष्टः स एव ततस्तथा निश्चीयताम् नान्यः कृतकत्वसाधर्म्यमात्रेण । नहि वस्त्रे रागस्य एव स्वहेतसन्निधिसापेक्षस्यावश्यम्भाविना-१० (ता) तद्धेतुसन्निधेरप्यपरहेतुसन्निधिसापेक्षत्वात् , 'न चावश्यं हेतवः फलवन्तः' इत्युक्तम् । अथ सापेक्षोऽपि वाससि रागः सर्वत्र यापलभ्यते किमित्यवश्यंभावी न भवेत् ? न च तथोपलभ्यते अन्यथापि तस्य ग्रहणात् एवं यदि नाशस्याप्यन्यथापि भाव उपलभ्यते तदा सापेक्षत्वान्नावश्यभाविता भवेत् न चैवं सर्वत्र[?? कृतके श(विनाश)स्योपलब्धेरिति, असदेतत् भवतु समस्तवस्तुव्यापिज्ञानाभावात् भावेऽनुमानवृत्तेन वैफल्यापत्ति(त्तिः) ??] हेतुबलादुपजातध्वंसस्य कस्यचिद् १५ दर्शनेऽपि कारणप्रतिबद्धजन्मनामन्यथापि दर्शनात् , उपजातशङ्को देशादिविप्रकृष्टेषु भावेषु कथं तथाभावं निश्चिनुयात् ? यद्यपि वा(चा)कृतकानां विनाशं(शो) नोपलब्धः तथापि कालान्तरे तदा वा असौ हेतुनिमित्तो न सम्भवीति कुतो निश्चयः? न वा(चा)कृतकः प्रागभावस्तदविनाशो वा सम्भवतीति प्रतिपादितम् । ततोऽसमर्थो विनाशहेतुरिति स्थितम् व्यर्थश्च । तथाहि-यदि स्वभावतो नश्वरो भावः न किञ्चिद् विनाशहेतुमिः तत्स्वभावतयैव तस्य स्वयं नाशतः-नहि स्वयं पतति २० पातप्रयासः फलवान् । अथानश्वरस्तदा तत्स्वभावस्यान्यथाकर्तृमशक्यत्वाद् व्यर्थी नाशहेतुः।न च व(च)लरूपतायां तदुपयोगः, यतो नास्माभिः कार्ये भावानां व्यापारः प्रतिक्षिप्यते किन्त्वचलरूप. तैव । ततो भावानौमुद्भूता[?? भावस्य भावपूर्वस्तु पूर्वको प्रच्युत एवेति तथोपलब्ध्यादिप्रसङ्गः ??] यश्च विनाशहेतोरस्थिरस्वभावो घटादेर्भवति कथं से सस्य( तस्य) स्वभावः तस्मिन्निष्पन्ने भिन्नहेतुकः ? यतो नै तत्स्वभावो युक्तः । न चैं स्वहेतुभिरेव नियमितस्वभावोऽयं कालान्तरस्थायी पदार्था-२५ नां हेतुभिर्जनित इत्युत्पादानन्तरं न विनष्टः स तस्मिन्नेव स्वभावे व्यवस्थितः कथमन्तेऽपि नश्येत् ? तथाहि-उदयकाले यः स्वभावः स्थिरः तत्स्वभाव एवायमन्तेऽपीति पुनस्तावन्तमेव कालं तिष्ठेत, तथा तदन्तेऽपि तावन्तमपरम् कालान्तरस्थितिरूपस्योदयकालभाविनः स्वभावस्य तदन्तेऽपिभावात। न ह्यन्तेऽपि रूपान्तरसम्भवस्तस्यैकस्वभावत्वात् अकिश्चित्करस्य च विरोधित्वाऽयोगात् तत् कथं तदपेक्षोऽयं निवर्तेत ? दण्डादिप्रपातसमयेऽस्य प्रच्युतिलक्षणः स्वभावः स किं प्रोगासीत् येनाऽसौ ३० १ “न तस्य किञ्चिद् भवति, न भवत्येव केवलम्"-आप्तमीमां० प० ३ श्लो० ५३ अष्टश० पृ. २८ पं० ३० । अष्टसह. पृ. २०० पं०१३। २-धाने भावो भां. मां। ३-त्यत्रप्र-वा० बा० विना। ४-वानां कृत. कानां आ० ।-वानां कृताकानां वा. बा०। ५-सितांस्थै-भां. मां. हा० वि० ।-सिनांस्थै-आ० । ६ नत्वनु-आ० हा० वि० । नचनु-भां० मां०। ७ न चात्मानु-भां. मां० । नवात्मानु-आ. हा०वि०। ८ न वा-आ० हा०वि०। ९ पृ० ३४६ पं० १८। १०-स्यान्य-वा० बा०। ११-तकेशास्यो-वा० बा। १२-वृत्ते हाटन विफल्यापत्ति हे-वा. बा० । १३-पि कर- वा० बा० विना। १४-शादिप्र-वा. बा० । १५-कानां विनाश नो-हा०वि०। १६ सम्भवाति आ० हा० वि०। १७-श्चया न आ० ।-श्चय न हा० ।-श्चये न वि०। १८-तक प्रा-वा० बा० भां० मा० विना । १९ च बल-वा० बा० विना। २० कार्य भा-वा. बा० । २१ किन्त्ववल-भां० मां० । २२-नामुद्भताभावस्वभावपूर्वस्तु पूर्वस्तु पूर्वको भां० मां० ।-नासुदूपताभावस्वभावपूर्वस्तु पूर्वको आ० ।-नासद्भूताभावस्वभावपूर्वस्तु को प्रत्युतहा०वि०। २३ स त्यस्य स्वभा-भां० मा. आ. हा० वि०। २४ न तस्वभावे यु-वा. बा०। २५ च स्वभावो युक्तः न च स्वहे-भां. मां०। २६-तभिरिति च निय-वा० बा० भ० मा० विना। २७-दानांतरं आ० हा०वि०। २८-पि नाशात वा. बा.। २९ तदन्तेति ता-वा. बा । तदान्तेपि ता-आ० । ३०-भाविनश्च भा-आ० ।-भाविन स्वभा-वा० बा०। ३१ प्राद्गासी-वा० बा०।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy