SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ नयमीमांसा। ३१३ मेदव्यवहार एवोत्सीदेत् । तथा, एकस्मिन्नुदकपरमाणौ 'आपः' इति बहुत्वसङ्ख्याया निर्देशोऽनुपपन्नः न ह्येकत्वसङ्ख्यासमाध्यासितं तदेव तद्विरुद्धबहुत्वसङ्ख्योपेतं भवतीत्येकसत्ययैव तन्निर्देष्टव्यम् । कालमेदाद् वस्तुभेदः ऋजुसूत्रेणाप्यभ्युपगत एवेति 'अग्निष्टोमयाजी पुत्रोऽस्य जनिता' इत्ययुक्तमेव वचः अतीताऽनागतयोः सम्बन्धाभावात् । तथा, अन्यकारकयुक्तं यत् तदेव अपरकारकसम्बन्ध. (न्धं) नानुभवतीति अधिकरणं चेद् ग्रामः अधिकरणशब्दवाचि(करणवाचि)विभक्तिवाच्य एव ५ न कर्माभिधानविभक्त्यभिधेयो युक्त इति 'ग्राममधिशेते' इति प्रयोगोऽनुपपन्नः। तथा, पुरुषभेदेऽपि 'नैकान्तद्(कं तद्वस्तु इति 'एहि मन्ये रथेन यास्यसि नहि यास्यसि यातस्ते पिती' इति च प्रयोगो न युक्तः अपि तु 'एहि मन्यसे यथाहं रथेन यास्यामि' इत्यनेनैव परभावेनैतन्निर्देष्टव्यम् । एवमुपग्रहणमेदेपि 'विरमति' इति न युक्तः आत्मार्थतायां हि 'विरमते' इत्यस्यैव प्रयोगसङ्गतेः । न च्चै(चै)वं लोकशास्त्रव्यवहारविलोप इति वक्तव्यम् , सर्वत्रैव नयमते तद्विलोपस्य समानत्वादिति यथार्थशब्द-१० नात् शब्दे (ब्द)नयो व्यवस्थितः । तदुक्तम् - "विरोधिलिङ्ग-सङ्ख्यादिभेदात् भिन्नस्वभावताम् । तस्यैव मन्यमानोऽयं शब्दः प्रत्यवतिष्ठते" [ [समभिरूढनयस्वरूपम् ] एकसंज्ञासमभिरोहणात् समभिरूढस्त्वाह-यथा हि विरुद्धलिङ्गादियोगाद् भिद्यते वस्तु तथ १५ संचाभेदादपि । तथाहि-संशाभेदः प्रयोजनवशात् सङ्केतकर्तृभिर्विधीयते न व्यसनितया अन्यथा अनवस्थाप्रसक्तेः ततो यावन्तो वस्तुनः स्वाभिधायकाः शब्दास्तावन्तोऽर्थमेदाः प्रत्यर्थ शब्दनिवेशात् नैकस्यार्थस्यानेकेनाभिधानं युक्तमिति 'घटः' 'कुटः' 'कुम्भः' इति वचनभेदा भिन्न एवार्थः, क्रियाशब्दत्वाद् वा सर्वशब्दानां सर्वेऽप्यन्वर्था एव वाचकाः ततो 'घटते' 'कुटति' 'कौ भाति' इति च क्रियालक्षणनिमित्तभेदात् नैमित्तिकेनाप्यर्थेन भिन्नेन भाव्यमिति 'घटः' इत्युक्ते कुतः 'कुटः' इति २० प्रतिपत्तिः तेन तदर्थस्थानभिहितत्वात् ? यथा वा 'पविक'शब्दोक्तेरन्यैव पावकशक्तिरन्वय-व्यतिरेकाभ्यां लोकतः प्रसिद्धा तथा घटन-कुटनादिशक्तीनामपि भेदः प्रतीयत पवेति नानार्थवाचिन एव पर्यायध्वनयः नैकमर्थमभिनिवेशन्त इति समभिरूढः । उक्तं च "तथाविधस्य तस्यापि वस्तुनः क्षणवृत्तिनः। ब्रूते समभिरूढस्तु संज्ञाभेदेन भिन्नताम्" ॥ [ १ "धातुसंबन्धे प्रत्ययाः"-पाणि० अ० ३ पा० ४ सू० १। “सोमयाजी अस्य पुत्रो भविता"-सिद्धान्तकौ. पृ.४७६ सूत्रा. २८२४ । “धातोः संबन्धे प्रत्ययाः"-हैम० अ० ५ पा० ४ सू० ४१। २ संबन्धे ना-आ० वि.। ३-शब्दवावि भां. मां. विना। ४ “अधिशीङ्-स्थाऽऽसां कर्म"-पाणि० अ० १ पा० ४ सू०४६ सिद्धान्तको० पृ. १३७ सूत्राङ्क० ५४२ । “अधेः शीङ्-स्थाऽऽस आधारः"-हैम० अ० २ पा० २ सू० २०। ५ नै. कांतवस्तु वा. बा. विना। ६ “प्रहासे च मन्योपपदे मन्यतेरुत्तम एकवच"-पाणि० अ०१ पा० ४ सू० १०६ सिद्धान्तकौ० पृ. ३३५ सूत्राङ्क० २१६३ । आचार्य हेमचन्द्रस्तु एतत् सूत्रमकृत्वैव एनं प्रयोगं समर्थितवान् भन्श्यन्तरेण. सा चेयं भङ्गि--'एहि मन्ये रथेन यास्यसि न हि यास्यसि यातस्ते पिता' इति प्रहासे यथाप्राप्तमेव प्रतिपत्तिः नात्र प्रसि. द्धार्थविपर्यासे किश्चिन्निबन्धनमस्ति 'रथेन यास्यसि इति भावगमनाभिधानात् प्रहासो गम्यते । 'नहि यास्यसि' इति बहिर्गमनं प्रतिषिध्यते । अनेकस्मिक्षपि प्रहसितरि च प्रत्येकमेव परिहास इति अभिधानवशाद् 'मन्ये' इति एकवचनमेव । लौकिकश्च प्रयोगोऽनुसतव्य इति न प्रकारान्तरकल्पना न्याय्या"-"त्रीणि त्रीणि अन्य-युष्मदस्मदि"-हैम० अ०३ पा०३ सू०१७ बृ० वृ०। ७ ग्रहेण-भां० म०। ८-णभेदोऽपि वा. बा. विना। ९-ताया हि वा. बा. विना। १.ननेवं वा. बा० । नत्वेवं भां. मां०। ११-ति नव-वा० बा०। १२-रोधलि-आ. विना। "विरोधे लिङ्ग. सङ्ख्यादि"-न्यायाव० टिप्प. पृ० १२६ पं० २०। १३-ति को भा-आ०। १४-पाचक-वा. बा. आ० । १५ न्यायाव. टिप्प० पृ. १२७ पं० १८। स० त०४.
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy