SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ २५२ प्रथमे काण्डेविनाशित्वेनोपलब्धानां प्रतिक्षणं विनाशाभावे विनाशप्रतीतिरेव न स्यात्, द्वितीयेऽपि क्षणे भावस्थ स्थितौ सर्वदा स्थितिप्रसङ्गात्, द्विक्षणावस्थायित्वे हि द्वितीयेऽपि क्षणे क्षणद्वयस्थितिस्वभावत्वात्अतत्स्वभावत्वे स्वभावभेदेन क्षणिकत्वप्रसङ्गात्-तृतीयेऽपि क्षणेऽवस्थानं स्यात् तदाऽपि तत्स्वभावत्वात् चतुर्थेऽपि । एवमुत्तरेष्वपि क्षणेष्ववस्थानादासंसारं भावस्य स्थितेरविनाशाद् विनाश५प्रतीतिर्न स्यात। भवति च विनाशप्रतीतिः अतस्तत्प्रतीत्यन्यथाऽनुपपत्त्या प्रतिक्षणविनाशानुमान दृश्यात्मकस्य कार्यस्य अदृश्यात्मनोऽप्याद्ये क्षणे यः स्वभावः प्रागभूत्वा भवनलक्षणः स एव चेत् द्वितीयेऽपि क्षणे प्रागभूत्वा भावस्य भावात् क्षणिकत्वम् । अथ प्रथमे क्षणे जन्मैव न स्थितिः, द्वितीये क्षणे स्थितिरेव न जन्म तथापि जन्मजन्मिनोः स्थितिस्थितिमतोश्चाभेदात् तयोश्च व्यति रेकात प्रतिक्षणमनवस्थायित्वम् अपरापरकालसम्बन्धित्वस्य परस्परव्यतिरेकिणो भावस्वभावत्वाब १० प्रतिक्षणमनवस्थायित्वमिति सिद्धा विनाशं प्रत्यनपेक्षा भावस्य, असदेतत् ; स्वहेतोरेवानेकक्षणस्थायी भावो भूतक्षणेष्वभवन् , तिष्ठन् वर्तमानक्षणेषु, भविष्यत्क्षणेषु स्थास्यंश्चान्त्यपश्चिमे प्रथमक्षण एव जात इति कालेनाऽनागतादिनाऽसताऽपि विशेष्यत्वं भावस्याविरुद्धं कारणसामर्थ्यवत् द्वितीयेऽपि क्षणे न-अन्यथा कार्यकारणयोरेकदैवोत्पत्तरेकक्षणस्थायि जगत् स्यात्-इति प्रागुत्पत्तेरभूत्वा भावेऽपि भावस्य द्वितीयाँदिक्षणे न क्षणिकत्वम् । वस्तुतस्तु भावक्षणात् पूर्वक्षणेषु भूत्वा भावी स्वभावो १५भावस्य सर्वत्रानान्त्यक्षणेनापि (?) विशिष्टेऽनन्तरातीतक्षण एव, प्रथमक्षणे ताशस्वभावस्य भावे द्वितीयादिक्षणेऽपि न क्षणिकत्वम्, अक्षणिकत्वाविरोधात् भावक्षणात् पूर्वक्षणेष्वभूत्वा भावस्य द्वितीयादिक्षणेऽपि प्रथमक्षणस्वभावस्य भावे तत्स्वभावत्वेऽप्येकान्ततः क्षणिकत्वासम्भवात् । अथा. भूत्वा भावश्च प्रागसतः सत्त्वम् , तस्य द्वितीयेऽपि क्षणे भावान्न पूर्वापरक्षणयोः स्थित्युत्पत्तिमत्त्वेन स्वभावभेदाद् भावस्य क्षणिकत्वम् । नाप्यपरापरकालसम्बन्धोऽप्यपरापरखैभावो भवति परमाणु२० षट्कसम्बन्धेऽप्येकपरमाणुवत् । परमाणूनामय शलाकाकल्पत्वात् परस्परमसम्बन्धः इति चेत्, असदेतत् ; सम्बन्धे प्रतीयमाने असम्बन्धकल्पनाऽयोगात् । कृत्स्नैकदेशसम्बन्धविकल्पयोगादसम्बन्धः । तथाहि-सर्वात्मना परमाणूनामभिसम्बन्धेऽणुमात्रं पिण्डः स्यात् । एकदेशेनाभिसम्बन्धे त एकदेशाः परमाण्वात्मन आत्मभूताः, परभूता वा? आत्मभूताश्चेत्, नैकदेशेनाभिसम्बन्धः तेषा. मभावात् । परभूताश्चेत्, परमाणुभिरेकदेशानां सर्वात्मनाऽभिसम्बन्धेऽमेदादेकदेशैकदेशिनोरेक२५ देशाभावान्नैकदेशेनाभिसम्बन्धः परमाणूनाम् । एकदेशेनैकदेशानामेदेशिनाऽभिसम्बन्धश्चेत्, तदेकदेशानां ततो भेदाभेदकल्पनायां तदस्थः पर्यनुयोगोऽनवस्था च न च प्रकारान्तरं दृष्टं येनाणूनां सम्बन्धः स्यात् अतोऽनुपलभ्यमानस्यापि परमण्विसम्बन्धस्य कल्पना, असम्यगेतत्; असम्बन्धवत् सम्बन्धप्रकारान्तरस्यैवादृष्टस्यापि कल्पनीप्रसक्तेः । सर्वात्मनैकदेशेने वाऽ"नाम १-त्वे द्वि-आ० । २ क्षणाऽव-भां० मा० । ३ एवमुत्तरोत्तरेष्वपि क्षणेषु स्थानादा-भां० मा । ४ क्षणेषु स्थाना-वा० बा० हा०। ५-मानं दृश्यात्मनोऽप्या-आ० वि०। ६-व भावस्य न भां० मा० । ७-येऽपि क्ष-भां० मां०। ८-मवस्थायित्व-वा. बा०। ९-क्षणास्था-हा०। १०-क्षणेषु भ-वा. बा.। ११-श्चात्यपश्चि-वा. बा० ।-श्चात्पश्वि-आ० । १२-ना सता-आ० वि०। १३-रुद्धकार-वा. बा। १४-र्थ्यव द्वि-वि• विना ।-थ्यं वद्दि-आ० । १५-तीयपक्षे नान्यथा वा० बा०। १६-यादिलः क्ष-आ० । १७ सर्वत्र नान्त्य-भां. मां०। १८-शिष्टो अनन्त-वा० बा०। १९-दृशःस्व-वा. बा. हा० ।-दृशास्वआ० वि०। २०-कत्वाद्वि-आ० वि०। २१ अभूत्वा मां०। २२-म्बन्धेऽप्य-भां० म०। २३-स्वभावोभावो भ-भां. मां०। २४ "कथं च सम्बन्धे प्रतीयमानेऽप्रतीयमानस्याप्यसम्बन्धस्य कल्पना प्रतीतिविरोधात्"प्रमेयक. पृ० १५२ प्र. पं०४ ।। २५ "किंचासौ रूपश्लषः सर्वात्मनैकदेशेन वा स्यात् ? सर्वात्मना रूप लेषेऽणूनां पिण्डा(2)णुमात्रः स्यात् । एकदेशेन तच्छेषे किमेकदेशास्तस्यात्मभूताः परभूता वा ? आत्मभूताश्चेन्नैकदेशेन रूपश्लेषस्तदभावात् । परभूताश्चेत् तैरप्यणनां सर्वात्मनेकदेशेन वा रूपश्लेषे स एव पर्यनुयोगोऽनवस्था च स्यात्"-प्रमेयक० पृ. १४९ प्र. पं.४। २६-मात्रः पि-भां० मां०।-मात्र पि-वि०। २७-कदेशिनोऽभि-वा० बा०। २८-वस्था प-वा. बा. । २९-माणूसम्ब-आ० ।-माणुसम्ब-वि०। ३० तत्सम्ब-वा. बा. विना । ३१-रस्येवा-मां. मां. वा. बा. हा. विना। ३२-नायां प्र-भां० मा० वा. बा. हा. विना। ३३-नचाणू-आ० हा०। ३४-णूनां सम्ब-आ० वि०।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy