SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ शब्दार्थ - तत्संबन्धयोर्मीमांसा । अनित्यत्वादिव्यवच्छेदेन नित्यादिव्यवच्छेद्यस्य व्यवस्थायामनित्यादिव्यवच्छेदस्यापि नित्यादिव्यवच्छेद्याद् व्यवच्छेदेन बुद्धिप्रतिभासभेदादेव भेदोऽस्तु किं व्यवच्छेदस्य व्यवच्छेद्यभेदाद् भेदकल्पनया ? तथैव भेदादू व्यवच्छेदस्य साध्यसाधनभावे शब्दत्वादेरपि बुद्धिप्रतिभासभेदेन भेदात् साधनभावः स्यात् । तथा च न कश्चित् प्रतिज्ञार्थैकदेशासिद्धो हेतुः स्यात् । न च शब्दाच्छब्दत्वस्य न प्रतिभासभेदः; अन्यथा धर्मिधर्मव्यवस्था ऽभावप्रसक्तेः । अथ प्रतिभासभेदेऽपि व्यवच्छेद्यभेदा- ५ भावात् शब्दत्वस्य प्रतिज्ञार्थैकदेशत्वम्, नन्वेवं भाव- द्रव्याभिधायिनोरभिधानयोरपर्यायता न स्यात् 'शब्द' शब्देन शब्दत्वस्याप्यभिधानात् ; अन्यथा प्रतिज्ञार्थैकदेशताऽपि न स्यात् । नाप्यापभेदादू व्यवच्छेदस्य भेदः, सत्वादावसत्त्वाद्यारोपस्याभावात् भावे वा सत्त्वमध्यनित्यत्ववत् साध्यमनुषज्येत । तत्साधने च तद्धेतोरसिद्ध विरुद्धाऽनैकान्तिकदोषत्रयानतिवृत्तिर्भवदभिप्रायेण । तन्न कृतकत्वाऽनित्यत्वयोः साध्यसाधनभावः भवदभिप्रायेण भेदाभावात् । अथ तयोः १० परमार्थतोऽभेदेऽपि निश्चयवशाद् गम्यगमकभाव इति कृतकत्वं कृतकत्वाध्यवसायिना निश्चयप्रत्ययेन भेदेन निश्चीयमानमनित्यत्वस्य गमकम्, ननु ययोर्वस्तुगतयोः कृतकत्वाऽनित्यत्वयोस्तादात्स्यप्रतिबन्धः न तयोर्निश्चय इति न गम्यगमकत्वम्, ययोश्च विकल्पबुद्धिप्रतिभासिनोर्भेदेन निश्चयः न तयोस्तादात्म्यनिबन्धनो गम्यगमकभावः, बुद्ध्यारूढयोरवस्तुत्वेन प्रतिबन्धाभावात् । अथ भेद एव तयोः कल्पना निर्मितः न पुनर्वस्तुस्वरूपमपि शब्दस्वलक्षणस्याकृतक नित्यव्यावृत्तनिरंशैकस्वभा- १५ वत्वात् तद्गतकृतकत्वादिभिन्नधर्माद्यध्यवसायिनश्च कृतकत्वादिविकल्पास्तथाभूतस्वलक्षणानुभवद्वारायात्वेन तत्प्रतिबद्धास्तेन तत्प्रतिभासिनोर्धर्मयोः साध्यसाधनभावः अव्यभिचारश्च पारम्पर्येण वस्तुप्रतिबन्धादुपपद्यत एव । स्यादेतत् येदि तथाभूतं स्वलक्षणं प्रत्यक्षत एवं सिद्धं स्यात्, न च तत् ततः सिद्धम् स्वप्नेऽपि निरंशक्षणिकानेकपरमाणुरूपस्य तस्यासंवेदनात् । यादृग्रूपं तु तत् प्रत्यक्ष प्रतिभाति कृतकत्वाद्यनेकधर्माध्यासितं तन्न निरंशम्, यतस्तदनुभवद्वारायातकृतकत्वादि- २० विकल्पप्रतिभासिनीं धर्माणामव्यभिचारात् साध्यसाधनभाव उपपद्येत । न चानुमानविकल्पत एव तस्य तथासिद्धिः, प्रतिबन्धा सिद्धावनुमानस्यैवाप्रवृत्तेः । सविकल्पक प्रत्यक्षस्य साध्यसाधनधर्मप्रतिबन्धग्राहकस्य धर्मिस्वरूप ग्राहकस्य च प्रामाण्याभ्युपगमे शब्दादिधर्मिणः कृतकत्वाद्यनेकधर्मात्मकस्य सिद्धत्वाद् विवादाभाव एव । भवतु वा परपक्षे साध्यसाधनभेदः तथापि न साध्यसाधनभावः, तयोर विनाभावसाधकप्रमाणाभावात् । २५१ २५ अथ 'निर्हेतुकत्वाद् विनाशस्य विनाशस्वभावनियतो भावः तद्भावे भावस्यान्यानपेक्षणात् अन्त्यकारणसामग्रीविशेषवत् स्वकार्योत्पादने' इत्यादिसाधन सद्भावात् कथं नाविनाभावः प्रकृतसाध्य-साधनयोः ? असदेतत् तयोरविनाभावसाधनम्, अनैकान्तिकत्वात् । तथा हि- अनपेक्षाणामपि शाल्यङ्करोत्पादने यवबीजादीनां तदुत्पादनसामग्रीसन्निधानावस्थायां तद्भावनियमाभावात् । अथ वीजादीनां तत्स्वभावाभावात् तत्स्वभावापेक्षयाऽनपेक्षत्वमसिद्धम् तर्हि विनाशस्वभावापेक्षत्वात् ३० कृतकानामपि केषाञ्चित् तत्स्वभावाभावादनपेक्षत्वमसिद्धं स्यात् । अथ हेतुस्वभावभेदाभावात् सर्व सामग्रीप्रभवाणां विनाशसिद्धेस्तंदन पेक्षत्वान्नानपेक्षत्वमसिद्धम्, ननु विचित्रशक्तयो हि सामग्रयो दृश्यन्ते तत्र काचित् स्यादपि सामग्री या नश्वरात्मानं जनयेत् शृङ्गादिकेव शरादिकम् । अथ १ - च्छेद्यस्य वा० बा० । २ - च्छेद्यस्य वा० बा० । ३ -भासभेदात् वा० बा० । ४- धनाभा-भां० मां० ।-धनः भावा० वा० हा० । ५-स्थाभा-भां० मां० वा० बा० हा० विना । ६- कत्वाव्यवसा-वा० बा० । ७-योस्तदात्मप्रति -आ० । ८-न्धनयोग वा० वा० ।-न्धनयोर्ग -आ० हा० वि० । ९ - स्तुरूपवा० बा० । १० - सिनो ध-आ० वि० वा० बा० ।-सिना ध हा० । ११ - यदि यथाभूतं आ० वि० । १२- तं न तन्निरस्यं (रंशं) वा० वा० हा ० । १३ - सिनाद्ध-भ० मां० । १४ " शाल्यङ्कुरोत्पादन सामग्रीसन्निधानावस्थायां तदुत्पादनेऽन्यानपेक्षाणामप्येषां तद्भावनियमाभावात् । द्वितीयपक्षे तु विशेष्यासिद्धो हेतुस्तत्स्वभावत्वे सत्यप्यन्यानपेक्षत्वासिद्धेः । न ह्यन्त्या कारणसामग्री स्वकार्योत्पादन खभावाऽपि द्वितीयक्षणानपेक्षा तदुत्पादयति । दहनस्वभावो वा वहिः करतला दिसंयोगानपेक्षो दाहं विदधाति । भागे विशेषणा सिद्धं च तत्स्वभावत्वे सत्यन्यानपेक्षत्वं शृङ्गोत्थशरादीनां क्षणिकस्वभावाभावात् " - प्रमेयक० पृ० १४५ प्र० पं० ५। १५- दकं सा-भां०] मां० विना । १६- धानाव्यव - वि० । १७ - जानां भ० मां० विना । १८ - वात् तत्स्वभावापेक्षत्वमसिद्धम् वि० । १९- स्तदान्यापेक्ष-वा० बा० हा ० ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy