SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ २४१ शब्दार्थ-तत्संबन्धयोर्मीमांसा। तन्निरस्तम् बाधकप्रत्ययनिबन्धनस्य मिथ्यात्वस्य सामान्यबुद्धौ प्रतिपादितत्वात् । असदेतत् } यतो यदि नित्यम् व्यापकं च व्यक्तिभ्य एकान्ततो भिन्नमभिन्नं वा सामान्यमभ्युपगम्येत तदा स्याद् यथोक्तबाधकावकाशः यदा तु सदृशपरिणामलक्षणं सामान्यम् , विसदृशपरिणतिलक्षणस्तु विशेषः तदात्मकं चैकं वस्तु तदाऽत्यन्तभेदाभेदपक्षभाविदोषानुषङ्गोऽनास्पद एव । __अथ साधारणासाधारणरूपस्यैकत्वविरोधोऽत्रापि बाधकम् । तथाहि-यद् यदाकारपरिहारी- ५ वस्थितस्वरूपं तत् ततो भिन्नम् , यथा घटरूपपरिहारावस्थितस्वरूपः पटः, असाधारणरूपपरिहारावस्थितं । साधारणं रूपमिति कुतस्तयोरभेदः? तथाप्यभेदे न किञ्चिदपि मिन्नं स्यात् अन्यस्य मेदव्यवस्थाहेतोरभावात्। कथञ्चिद्भेदाभेदाभ्युपगमेऽपि तयोर्येनाकारेण भेदस्तेन भेद एव येन चामेदस्तेनाप्यमेद एव, नैकं साधारणासाधारणधर्मद्वयात्मकं वस्तु, विरोधात् । अथ येन रूपेण मेदस्तेनापि नैकान्तेन भेद एव किं तर्हि? भेदाभेदः । ननु तत्रापि 'येनाकारेण भेदस्तेन भेद एव१० इत्यादिवचनादनवस्थाप्रसक्तिरित्यादि न कथं बाधकम् ? असदेतत्:समानासमानाकारतया बहिः शाबलेयादेः परिस्फुटप्रतिपत्तो प्रतिभासमानस्यैकत्वेन विरोधासिद्धेः; अन्यथा ग्राह्य ग्राहक-संवि"त्तित्रितयाध्यासितं कथमेकं संवेदनं स्यात्, चित्रज्ञानं वा परस्परविरुद्धनीलाद्यनेकाकारं कथमेकमभ्युपगम्येत येनेदं वचः शोभेत-"चित्रप्रतिभासाऽप्येकैव वुद्धिः, बाह्यचित्रविलक्षणत्वात्" [ ] इति ? अथ--"किं स्यात् सा चित्रतेकस्यां न स्यात् तस्यां मतावपि" [ ]१५ इति वचनात् साप्यनेकाकारका नेप्यते इति नायं दोषः । नन्वेवमभ्युपगच्छता ग्राह्यग्राहकाकारविविक्ता साऽभ्युपगता भवतिः स्वसंवेदने च सा यदि तथैवावभाति तदा ग्राह्यग्राहकाकारप्रतिभासः क्वचिदपि ज्ञाने न प्रतिभासते इत्यप्रवृत्तिकं जगत् स्यात् । अथ ग्राह्यग्राहकविनिर्मुक्तमा. त्मानं प्रच्छाद्य 'संवित्तिरियं स्वसंवेदने चैतन्यलक्षणं स्वभावमादर्शयति कथं तहनेकान्तं सा प्रतिक्षिपेत् ? प्रतिभासमानाप्रतिभासमानयोश्च चैतन्य-ग्राह्य ग्राहकाकारविवेकलक्षणयोर्धर्मयोरविरोधं च २० कथं न प्रकाशयेत् ? अपि च, द्विविधो वो विरोधः-सहानवस्थानलक्षणः, परस्परं परिहारस्थितिलक्षणश्च । स च द्विविधोऽप्येकोपलम्भेऽपरानुपलम्भाद् व्यवस्थाप्यते, साधारणासाधारणाकारयोस्त्वध्यक्षेण भेदाभेदात्मतया प्रतीतेः कथं विरोधः ? तद्रूपाऽतद्रूपाकारते हि तयोर्भेदाभेदो, तथावभासनमेव च तयोर्भेदाभेदग्रहणमिति कथं विरोधाऽनवस्थानादिदूषणावकाशः? न च तयोः परस्परपरिहारस्थितलक्षणता सम्भवति अव्यवच्छेदरूपतया प्रत्यक्ष प्रतिभासनात् । न च सामान्य-२५ विशेषयोराकारनानात्वेऽप्यनानात्वेऽन्यत्राप्यन्यतोऽन्यस्यान्यत्वं न स्यात् इति वक्तुं युक्तम्, सामान्यविशेषवत् तादात्म्येनान्यत्र प्रत्यक्षतोऽग्रहणात् ग्रहणे वा भवत्येवाकारनानात्वेऽपि नानात्वाभावः। न चाकारनानात्वेऽपि सामान्य-विशेषयोरमेदप्रतिपत्तिर्मिथ्या, बाधकाभावात् । न च 'स्वभावभेदात् सामान्य-विशेषयोर्घट-पटादिवद मेद एव' इत्यनुमानं बाधकं प्रत्यक्षस्य, प्रत्यक्षेण बाधितत्वादत्रानुमानाप्रवृत्तेः। अथानुमानविषये न प्रमाणान्तरवाधाः नन्वेवं ध्वनेरश्रावणत्वेऽपि साध्ये सत्त्वादे-३० यथोक्तलक्षणतया प्रमाणान्तराबाधितत्वेन प्रतिपत्तिः स्यात् , सपक्षे घटादौ सत्त्वाऽश्रावणत्वेयोस्तादात्म्यस्याध्यक्षेणाधिगमात् । अथान्तात्यभावान्नानयोाप्यव्यापकभावः तत् प्रकृतानुमानेऽपि तुल्यम्। पक्षस्याध्यक्षविरुद्धत्वादश्रावणत्वानुमानाप्रवृत्तिरिति "चेत्, न तहि स्वभावभेदानुमानेऽपि १-धकावशो य-हा० वि० ।-धकवशो य-वा० बा०। २-दृश्यप-भां० वा. बा०। ३ अथ साधारणरूपस्यैक-भां० मा० विना। ४-राव्यव-भां० मा०। ५-रूपप-हा० वि०। ६-रणरूप-आ० हा० वि० । ७ कथञ्चिद्भेदाभ्युप-भां० मां० हा० विना। ८-न वाऽभे-आ० । ९-दाभेदी हा० वि०। १०-दि कथं न बाध-भां० मां-दिन कथं तर्हि बाध-वि०। ११-यादिपरि-भां. मां०। १२-त्तितृप्तया-हा० वि० । -त्तित्वतया-भां० ।-त्तित्वंतया-मां०। १३-स्याच्चित्तज्ञा-वा० बा० । स्या त्रिज्ञा-हा० वि०। १४-कस्या न भा०। १५ संवृत्ति-भां० मा० । संवंत्ति-वा० बा०। १६-त् प्रतिभासमानयोश्च आ० हा०वि०। १७ -म्भाद् वावस्थाप्यते भां० ।-म्भाद्रव्यवस्थाप्यते हा० वि० ।-म्भाद्रव्यव्यवस्थाप्यते आ०। १८-शः कच हा० ।-शः क्व च वि०। १९-भासन्न सामा-हा० वि० ।-भासन्न च सामा-आ० ।-भासना य सामा-वा० बा०। २०-त्वेऽन्यत्राऽप्यन्यतो-आ० हा० ।-त्वे नानात्वेऽन्यत्रा-वि०। २१-नात्र भां० मां. विना। २२ कं पक्षस्य भा० मां० विना। २३ प्रवृत्तिः स्यात् भां• मां०। २४-त्वयोस्तयोस्तदात्म्य-आ०। २५-पकाभावः भा. मां० विना। २६ चे त्तर्हि भा० मां• विना। स० त०३१
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy