SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ शब्दार्थ-तत्संबन्धयोर्मीमांसा । २२९ 'ज्ञानाकारनिषेधाच्च' इत्यादी ज्ञानाकारस्य स्वसंवेदनप्रत्यक्षसिद्धत्वात् कथमभावः? तथाहि-स्वप्नादिषु अर्थमन्तरेणापि निरालम्बनमागृहीतार्थाकारसमारोपैकं ज्ञानमागोपालेमतिस्फुटं स्वसंवेदनप्रत्यक्षसिद्धम् । न च देश-कालान्तरावस्थितोऽर्थस्तेन रूपेण संवेद्यत इति युक्तं वक्तुम्, तस्य तद्रूपाभावात्। न चान्येन रूपेणान्यस्य संवेदनं युक्तम् अतिप्रसङ्गात् । किश्च, अवश्यं भवद्भिर्ज्ञानस्यात्मगतः कश्चिदू विशेषोऽर्थकृतोऽ: गन्तव्यः येन बोधरूपताम्येऽपि प्रतिविषयं 'नीलस्येदं संवेदनम् न पीतस्य' इति विभागेन विभज्यते ज्ञानम् । तदभ्युपगमे च सामर्थ्यात् साकारमेव ज्ञानमभ्युपगतं स्यात् आकारव्यतिरेकेणान्यस्य स्वभावविशेषत्वेनावधारयितुमशक्यत्वात्, अतो भवता 'स्वभावविशेषः' इति स एव शब्दान्तरे. णोक्तः अस्माभिस्तु 'आकारः' इति केवलं नाम्नि विवादः। ____ 'एवमित्थम्' इत्यादावपि एवमेतन्नैवम्' इति वा प्रकारान्तरमारोपितमेवम्' इत्यादिशब्दैर्व्यव-१० च्छिद्यमानं स्फुटतरमवसीयते" चेति नाव्यापिता शब्दार्थव्यवस्थायाः। एवं कुमारिलेनोक्तं दूषणं प्रतिविहितम्। [ उद्दयोतकरोक्तानामाक्षेपाणां प्रतिविधानम् ] इदानीमुद्दद्योतकरेणोक्तं प्रतिविधीयते-तत्र यदुक्तम् 'सर्वशब्दस्य कश्चार्थो व्यवच्छेद्यः प्रकल्प्यते' इति, अत्रापि ज्ञेयादिपदवत् केवलस्य सर्वशब्दस्याप्रयोगात् वाक्यस्थस्यैव नित्यं प्रयोग इति यदेव मूढमतेराशङ्कास्थानं तदेव निवर्त्यमस्ति । तथाहि " 'सर्वे धर्मा निरात्मानः' 'सर्वे वा पुरुषा गताः'। सामस्त्यं गम्यते तत्र कश्चिदंशस्त्वपोह्यते" ॥ [ तत्त्वसं० का० ११८६ ] कोऽसावंशोऽपोह्यतेऽत्र इति चेत्, उच्यते "केचिदेव निरात्मानो बाह्या इप्टा घटादयः । - गमनं कस्यचिच्चैव भ्रान्तैस्तद्विनिवर्त्यते" ॥ [ तत्त्वसं० का० ११८७ ] 'एकाद्यसर्वम्' इत्यादावपि यदि हि सर्वस्याङ्गस्य प्रतिषेधो वाक्यस्थे सर्वशब्दे विवक्षितः स्यात् तदा स्वार्थोऽपोहः प्रसज्यते यावता यदेव मूढधिया शङ्कितं तदेव निषिध्यत इति कुतः स्वार्थापवादित्वदोषप्रसङ्गः? ऐवं २५ यादिशब्देष्वपि वाच्यम् । यच्चोक्तम्-'किं भावोऽथाभावः' इत्यादि, १ पृ. १९९ पं० १४ तथा ३२ । २-क्षप्रत्ययसि-भां. मां । ३ "ज्ञानाकारनिषेधस्तु खवेद्यत्वान्न शक्यते । विद्यते हि निरालम्बमारोपकमनेकधा" ॥ "ज्ञानस्यात्मगतः कश्चिनियतः प्रतिगोचरम् । अवश्याऽभ्युपगन्तव्यः स्वभावश्च स एव च"॥ "अस्माभिरुक्त आकारः प्रतिबिम्बं तदाभता । उल्लेखः प्रतिभासश्च संज्ञाभेदस्त्वकारणम्" ॥ तत्त्वसं० का० ११८१-११८२-११८३ पृ० ३५९ । ४-पज्ञान-वा. बा० । ५-लममिस्फु-भां० मा० ।-लमितिस्फु-आ० ।-लमि स्क-वा. बा०। ६-साम्ये ति प्रति-हा. वा. बा० ।-साम्येति विष-आ०। ७-भज्येते आ. भा०। ८-वलनाम्नि भां० मां. विना। ९ एवमित्यादा-भां. मां०। १० १९९ पं० १८ तथा ३६।। ११ “एवमित्यादिशब्दानां नैवमित्यादि विद्यते । अपोह्यमिति विस्पष्टं प्रकारान्तरलक्षणम्" ॥ तत्त्वसं• का० ११८४ पृ० ३६० । 'एवमेतजैवमिति प्रकारान्तर-' तत्त्वसं० पजि. पृ० ३६० पं०४। १२-ते वेति भां० मां०। १३ पृ. २०० पं० २ तथा २१-२२ । १४-च्छेद्यः प्रकल्प-आ० । च्छेदः प्रकल्प-हा० वि० । १५ “व्यवहारोपनीते च सर्वशब्देऽपि विद्यते । व्युदास्यं तस्य चार्थोऽयमन्यापोहोऽमिधित्सितः" ॥ तत्त्वसं० का० ११८५ पृ. ३६० । १६ निर्वर्त्य-हा. वि.। १७-स्यचिच्चैवं आ० वि०। १८ भ्रान्तेस्त-आ० । १९ पृ. २००५०५ तथा २३ । २० "सर्वाङ्गप्रतिषेधश्च नैव तस्मिन् विवक्षितः । खार्थापोहप्रसङ्गोऽयं तस्मादज्ञतयोच्यते"॥ तत्त्वसं० का० ११८८ पृ. ३६० । २१ एव द्यादि-वा० बा। एवमयादि भां०मा० आ. हा०।२२ पृ०२००५०११ तथा २६ ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy