SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ २१२ प्रथमे काण्डे-- प्रसह्यात्माऽपि सामर्थ्यात प्रतीयत एव 'न तदात्मा परात्मा' इति न्यायात्; अतः स्वलक्षणादिरपैमपोहं दृष्ट्वा लोकः शब्दं प्रयुत एव न वस्तुभूतं सामान्यम्। तस्याऽसत्त्वात् अप्रतिभासनाच। यदेव च दृष्ट्वा लोकेन शब्दः प्रयुज्यते तेनैव तस्य सम्बन्धोऽवगम्यते नान्येन अतिप्रसङ्गात् । यच्चे-'अगोशब्दाभिधेयत्वं गम्यतां च कथं पुनः' इति, ५अत्र "तादृक् प्रत्यवमर्शश्च यत्र नैवास्ति वस्तुनि । अगोशब्दाभिधेयत्वं विस्पष्टं तत्र गम्यते" ॥ [ तत्त्वसं० का० १०६३ ] यच्चोक्तम् 'सिद्धश्चागौरंपोह्येत' इत्यादि, १० तत्र, स्वत एव हि गवादयो भावाः भिन्न प्रत्यवमर्श जनयन्तो विभागेन सम्यग् निश्चिताः, तेषु व्यवहारार्थ व्यवहर्तृभिर्यथेषं शब्दः सिद्धः प्रयुज्यते । तथाहि-यदि भिन्न वस्तु स्वरूपप्रतिपत्त्यर्थमन्यपदार्थग्रहणमपेक्षते तदा स्यादितरेतराश्रयदोपः यावताऽन्यग्रहणमन्तरेणैव भिन्नं वस्तु संवेद्यते; तस्मिन् भिन्नाकारप्रत्यवमर्शहेतुतया विभागेन 'गो!ः' इति च सिद्धे यथेष्टं सङ्केतः क्रियते इति कथमितरेतराश्रयत्वं भवेत् ? १५. यच्चोक्तम्-'नाधाराधेय'-इत्यादि, तंत्र, न हि परमार्थतः कश्चिदपोहेन विशिष्टोऽर्थः शब्दैरभिधीयते । तेनैव यतः प्रतिपादितमेतत्-'यथा न किञ्चिदपि शब्दैवस्तु संस्पृश्यते, क्वचिदपि समयाभावात' इति । तथाहि-शाब्दी बुद्धिरबाह्यार्थविषयाऽपि सती स्वाकारं वाह्यार्थतयाऽध्यवस्यन्ती जायते, न परमार्थतो वस्तुस्वभावं स्पृशति यथातत्त्वमनध्यवसायात् । यद्येवम् कथमाचार्येणोक्तम्२० "नीलोत्पलादिशब्दा अर्थान्तरनिवृत्तिविशिष्टानर्थानाहुः" [ ] इति । "अर्थान्तरनिवृत्त्याह विशिष्टानिति यत् पुनः । प्रोक्तं लक्षणकारेण तत्रार्थोऽयं विवक्षितः" ॥ "अन्यान्यत्वेन ये भावा हेतुना करणेन वौ। विशिष्टा भिन्नजातीयैरसङ्कीर्णा विनिश्चिताः" ॥ "वृक्षादीनाह तान् ध्वानस्तद्भावाध्यवसायिनः । शानस्योत्पादनादेतज्जात्यादेः प्रतिपेधनम्" ॥ "बुद्धौ येऽर्था विवर्तन्ते तोनाह जननादयम् । निवृत्त्या च विशिष्टत्वमुक्तमेपामनन्तरम्" ॥ [ तत्त्वसं० का० १०६८-१०६९-१०७०-१०७१] १ न व त-बा०। २ पृ० २०३६० २३। ३-पस्यापो-बा०। ४ यथा गो-वि० वा० बा० । ५ पृ० १९०५० २५ तथा ४१। ६ पृ. १९१ पं० ४-१३ तथा ३१। ७-रपोहेत बा० । ८ "गावोऽगावश्च संसिद्धा भिन्नप्रत्यवमर्शतः । शव्दस्तु केवलोऽसिद्धो यथेष्टं संप्रयुज्यते" ॥ "न ह्यन्यग्रहणं वस्तु भिन्नं वित्तावपेक्षते । अन्योन्याश्रयदोपोऽयं तस्मादस्मिन्निरास्पदः"॥ तत्त्वसं० का० १०६४-१०६५ पृ. ३३१। ९ शब्दसिद्धः मां० । “शब्दोऽसिद्धः"-तत्त्वसं० पनि० पृ. २३२ पं०३। १०-मपेक्ष्यते भां० मां० आ० कां। ११-इति सि-वा. बा० । १२-सङ्केतक्रिय ति(येति)क-वा. वा०। १३ पृ. १९१ पं. ८ तथा ३३ । १४ पृ. १९१ पं० २१। १५ तन्न न हि वा० बा० । १६ “अवेद्यबाह्यतत्त्वाऽपि प्रकृष्टोपालवादियम् । खोल्लेख बाह्यरूपेण शब्दधीरध्यवस्यति" ॥ "एतावत् क्रियते शब्दैर्नार्थ शब्दाः स्पृशन्त्यपि । नापोहेन विशिष्टश्च कश्चिदर्थोऽभिधीयते" ॥ तत्त्वसं. का. १०६६-१०६७ पृ० ३३२ । १७-तः क्वचिद-भां० मां० विना। १८-यते तेन्नैव च तपादित-वा० बा०।-यते तेनैवं यंतःप्रतिपादित-आ०। "अभिधीयते। यतःप्रतिपादितमेतत्"-तत्त्वसं० पृ. ३३२ ५०१३। १९ पृ० १९१ पं० १९। २० शास्त्रवा० स्याद्वादक. पृ० ४०४ द्वि. पं०५। २१ नाहरित्यार्था-आ० हा०। २२ "अर्थान्तरनिवृत्त्याहुर्वि"-तत्त्वसं०। २३ शास्त्रवा० स्याद्वादक. पृ० ४०४ द्वि. पं० ९। २४-तास्तुन सद्भा-वा० बा०। २५ "तानाहाभ्यन्तरानयम्"-तत्त्वसं०।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy